एकः भिक्षुकः एकं महद्भवनं गत्वा बहिष्ठात् घण्टां नोदितवान्।
तस्मिन् भवने एका महिला एकाकिनी आसीत् या द्वारम् उद्घाटितवती।
भिक्षुकः तां दृष्ट्वा भिक्षां ददातु इत्युक्त्वा प्रार्थितवान्।
महिला तदा भवनस्य अन्तः स्थित्वा तस्मै भिक्षां दातुम् उद्यता अभवत्।
एवं परिस्थितौ तस्याः महिलायाः हस्तात् भिक्षां स्वीकर्तुम् अशक्तः सः भिक्षुकः तां महिलाम् उक्तवान् कृपया भवनस्य बहिः आगत्य मह्यं भिक्षां ददातु इति।
सा महिला भवनात् बहिः आगत्य यदा तस्मै भिक्षुकाय भिक्षां दातुं उद्यता अभवत् तदा सः भिक्षुकः तस्याः हस्तं गृहीत्वा हा हा हा इति कृत्वा हसित्वा उक्तवान् अहं भिक्षुकः न अहं रावणः अस्मि।
महिला अपि तदा हा हा हा इति कृत्वा हसित्वा उक्तवती अहं तु सीता नास्मि अहं तु दासी अस्मि।
रावणः - हा हा हा, अहं सीतायाः अपहरणं कृत्वा अद्यापि दुःखितः अस्मि। परन्तु भवतीं नीत्वा गच्छामि चेत् मम पत्नी मन्दोदरी सन्तुष्टा भविष्यति कारणं अस्माकं गृहे अपि दास्याः प्रयोजनम् अस्ति।
महिला- हा हा हा, सीतायाः अन्वेषणं कर्तुं केवलं रामः आगतवान् आसीत् परन्तु यदि भवान् मां नयति तर्हि अस्य भवनस्य सर्वे जनाः मम अन्वेषणाय आगमिष्यन्ति।🤣😜
*-प्रदीपः!*
No comments:
Post a Comment