*जीवनदर्शनम्!*
एकस्मिन् अरण्ये दौ सिंहौ निवसतः स्म। एकः वृद्धः अपरः च युवा आसीत्।
दौ अपि प्रेम्णा निवसतः स्म।
एकदा तयोः मध्ये महान् विवादः सञ्जातः।
तयोः मध्ये परस्परं वार्तालापः अपि न भवति स्म।
वृद्धः सिंहः दुर्बलः आसीत्। स्वयम् आहारस्य प्रबन्धम् अपि कर्तुं न शक्नोति स्म।
वृद्धं सिंहं दृष्ट्वा केचन कुक्कुराः तं खादितुम् आक्रमणं कृतवन्तः। तं सिंहं परितः सर्वे कुक्कुराः एकत्रीभूय आक्रमणं कृतवन्तः।
इदं दृश्यं दृष्ट्वा सः युवा सिंहः तत् सोढुं न शक्तवान् अपिच सः तत्र गत्वा भिषणगर्जनं कृतवान्।
तस्य सिंहस्य गर्जनात् भीताः सन्तः सर्वे कुक्कुराः ततः पलायनं कृतवन्तः।
एतत् सर्वं दृष्ट्वा अन्यः कश्चन सिंहः तं युवानं सिंहं पृष्टवान् किं भोः! भवतोः परस्परं विवादः आसीत् सत्यपि भवान् किमर्थं तं वृद्धं सिंहं कुक्कुरेभ्यः रक्षितवान्?
तदा सः युवा सिंहः उक्तवान्- अयं विवादः तु आवयोः मध्ये अस्ति।
परन्तु अस्य अर्थः एवं नास्ति यद् अस्माकं समाजः दुर्बलः यस्मात् कुक्कुराः अपि आगत्य लाभं स्वीकुर्युः।
यदि अन्यः कोऽपि आगत्य अस्माकं समाजे आक्रमणं करोति चेत् तस्य प्रत्युत्तरं दातव्यम् अपि च समाजः रक्षणीयः भवति इति।
*-प्रदीपः!*
No comments:
Post a Comment