संसार एकोsतिथि-आवासः ---
संसारे कः आगच्छति, कः निर्गच्छति, किमर्थं वा एवम् आवागमनम् इति सम्पूर्णरहस्यपूर्णो विचित्रश्च विषयोsयमस्ति । अनादिकालतः अनन्तकालपर्यन्तं धारावाहिकतया प्रवर्तमाना प्रक्रिया इयम् । एतदेव सत्यमिति निर्दुष्टतया वक्तुं न कोsपि सक्षमः, त्रिषु कालेषु । अत्र केवलम् संसारं दृष्ट्वा नानाविषयाः अनुमीयन्ते, कल्पना एव वा तिष्ठेत् जनमनसि । गच्छता कालेन एवमेव नानाधर्मसम्प्रदायाः नानाग्रन्थाः, नानारीती-नीत्यादयः आविर्भूताः जनसमाजे । एतदेव आधारीकृत्य अथवा एतदेव प्रमाणञ्च इति परिगणय्य जनसमाजः अग्रे धावन् भवति । एतदेव मूलम् इति न निर्भरयोग्यः अाधारोsपि । धर्मः कदापि कलहार्थं न भवति, यदि तैः धर्मैः जनसमाजः विभज्यते तर्हि ते न धर्माः । कदाचित् समाजस्य संयोजनं भवेच्चेदेव सः कश्चन धर्मः इति आख्यायितुं शक्यम् । किन्तु तन्न दृश्यते । अतः तद्धर्मः अपि प्रकृतरहस्यस्य उद्घाटकः न दृश्यते ।
वस्तुतः संसाररहस्यमेव अतीव गोपनीयम्, येन संसारः सृष्टः, सः एव जानीयात् किमयम् इति । मानवस्य सीमितविवेकेन एतस्य गम्भीर-रहस्यस्य उद्घाटनं न सम्भवेत् कदापि । मानवः एतदेव जानीयात् यत् संसारः सर्वेषां स्नेहपूर्वकं मिलनस्थानम्, अतिथिगृहं वा । अत्र सर्वे स्नेहपूर्वकं सम्मिल्य किमपि प्रगतिशीलं कार्यं करणीयम् । यथा गृहादिषु आगतानाम् अतिथीनाम् अादर-सत्कारादिकं क्रियते तथैव संसारे आगतानामपि भवेत्, पीडनस्य अपेक्षया तेषां सर्वप्रकारेण हितमेव साध्येत चेत् अयमेव मानवधर्मः कथ्यते इति, शम् ।
-- नारदोपाध्यायः ।
No comments:
Post a Comment