Friday, April 10, 2020

Not knowing Subhash chandra bose - Sanskrit joke

*विवाहालोचनम्*

कन्यायाः दर्शनानन्तरं युवकः परिवारसमतं गृहं प्रत्यागच्छति स्म ।मार्गे एव कन्यागृहात् अयं विवाहो नेच्छाम इति सूचना प्राप्ता ।

युवकस्य माता - रे  पूर्वपरिचितौ किल युवाम् ?
निमिषद्वयमेव अद्य  सम्भाषणं जातम्। किमुक्तं  त्वया ? अनुचितं किमपि ...... ?

नैव अम्ब! प्रकोष्ठे तस्याः पितुः चित्रं भित्तौ आसीत्  सैनिकवेषे तं दृष्ट्वा पिता सेनाकार्यं  देशे कुत्र कुत्र कृतवान् इत्येव पृष्टवान् नान्यथा।।

 _अत्रान्तरे कन्यागृहे तस्याः  पिता_ 

किमर्थम् अस्ययोग्यता नास्तीति उक्तवती त्वम्।

पितः!  अद्यैव ज्ञातवती सः मूर्खशिरोमणिः इति
सुभाषचन्द्रबोस् महाशयमपि न जानाति सः !! 

 *- सुनीशः*

No comments:

Post a Comment