नमस्ते
भारतसर्वकारं प्रति मम विनम्रनिवेदनं यत् केवलं सप्ताहे एकवारम् अर्धघण्टां यावत् नापितस्य आपणम् उद्घाटयितुम् अनुमतिं दद्यात्। 🙏
श्मश्रूणि केशाः च एतावन्तः दीर्घाः अभवन् यत् शाकानि क्रेतुं यदा बहिः गतवान् तदा एकः अतीव उत्साही समाजसेवकः मां दृष्ट्वा मत्समीपे आगत्य मम हस्ते पूरिकाः व्यञ्जनं च दत्वा
हे साधो!
भवन् भारतस्य लाक् डौन् कारणेन अहं बुभुक्षया मरिष्यामि
इति कदापि मा चिन्तयतु इति अवदत्।
मम श्मश्रुमयम् आकारं दृष्वा मां भिक्षुकं मत्वा
दयया मम हस्तयोः पूरिकाः व्यञ्जनं च अस्थापयत्।
अपि च मम एकं चित्रमपि गृहीतवान् ।
अनन्तरं तत् चित्रम् वाट् सप् मध्ये अपि स्थापितवान् ।
यदा अहं शाकानि नीत्वा गृहम् आगतवान् तदा मां दृष्ट्वा मम माता चित्कारं कृत्वा उक्तवती
भवान् शाकानि क्रेतुं गतवान् आसीत् उत भिक्षाटनं कृत्वा पूरिकाः व्यञ्जनं च खादितुम्??
भवान् भिक्षुकः वा?? इति माम् अतर्जयत्। 😜😃
*-प्रदीपः!*
सम्भाषण- संस्कृतम् (मासपत्रिका)
No comments:
Post a Comment