*स्वामिभक्तः शुकः।*
पुराकाले एकः राजा आसीत्।
सः अतीव दयालुः धर्मिष्ठः च आसीत्।
एकदा एकः पथिकः पञ्जरे निबद्धम् एकं शुकं गृहीत्वा तद् नगरम् आगतवान् आसीत्।
सः पथिकः शुकस्य महिमानं वर्णयन् मार्गे गच्छन्नासीत्।
राजभटाः तं पथिकं दृष्टवन्तः।
तं च राज्ञः समीपं नीतवन्तः , अपिच ते तस्य पथिकस्य सर्वं वृत्तान्तं निवेदितवन्तः आसन्।
राजा तदा तं पथिकं शुकं च कौतुकेन दृष्टवान् आसीत्।
राजा तं पथिकं पृष्टवान् - भवतः एषः शुकः भाषणे समर्थः वा इति।
पथिकः तदा उत्तरितवान् महाराज। मम अयं शुकः न केवलं भाषणे समर्थः अपितु भवतः मुखलक्षणं दृष्ट्वा भवतः भाविवृत्तान्तम् अपि वक्तुं शक्नोति इति।
तर्हि मम मुखलक्षणं दृष्ट्वा किञ्चित् वक्तुं वदतु तं शुकम् इति महाराजः पथिकम् आदिष्टवान्।
तदा पथिकः पञ्जरम् उद्घाटितवान् , शुकः ततः बहिः आगत्य राज्ञः समीपं आगतवान्। राज्ञः मुखं दृष्ट्वा उक्तवान् च हे राजन्। भवतः राज्ये शत्रूणाम् आक्रमणं भविष्यति इति।
शुकस्य वचनं श्रुत्वा महाराजः आश्चर्यचकितः अभवत् यतः कतिचन गुप्तचराः दिनद्वयात् पूर्वं तद्विषये राजानं सूचितवन्तः आसन्।
तदा पुनः महाराजः शुकं पृष्टवान् मित्र। भवान् असतन्त्रतया एव जीवनं करोति वा? भवतः सुहृदः बान्धवाः वा न सन्ति? भवतः स्वामी सर्वदा पञ्जरे तु न स्थापयति? किमर्थं भवान् इतः न पलायते इति।
तदा शुकः उक्तवान् मम स्वामी मयि अत्यन्तं प्रीणाति। अहं कृतघ्नः न अपिच असन्तुष्टः अपि न इति।
यति अहम् इतः पलायनं करिष्यामि तर्हि मम स्वामिना पुनः एकः शुकः अन्वेषणीयः भविष्यति, तस्मै शिक्षा अपि दातव्या भविष्यति। एतेन तस्य बहवः क्लेशाः भविष्यन्ति अतः अहं मम स्वामिनं त्यक्त्वा गन्तुं न इच्छामि इति।
शुकस्य एतद् वचनं श्रुत्वा राजा नितरां सन्तुष्टः अभवत्।
महाराजः तदा तस्मै स्वामिने उद्योगं दत्वा तं शुकं बन्धनात् मुक्तं कारितवान्।
अनन्तरे दिने राजा यदा विहारार्थम् उद्यानं गतवान् तदा सः शुकः राज्ञः समीपम् आगतवान् उक्तवान् च हे राजन्। अहं मम स्वामिनं भवन्तं च द्रष्टुम् आगच्छामि भवद्भ्यां सह वार्तालापं कर्तुं च आगच्छामि इति। अहं भवन्तं मम स्वामिनं च विस्मर्तुं न शक्नोमि अतः प्रतिदिनं भवद्भ्यां सह वार्तालापं कर्तुम् आगमिष्यामि इति।
राजा तदा तं शुकं गृहीत्वा वात्सल्येन लालितवान् इति शम्।
*-प्रदीपः!*
No comments:
Post a Comment