Wednesday, March 18, 2020

Never believe scoundrels-Sanskrit story

*वृद्धः मार्जारः मूषकः च।*

एकः मार्जारः तस्य जीवने बहून् मूषकान् हत्वा अखादत्। 

क्रमशः सः वृद्धः अभवत्, तस्य शक्तिः न्यूना अभवत् यस्मात् सः मूषकान् गृहीत्वा खादितुं न अशक्नोत्। 

मार्जारः तदा तस्य ललाटे तिलकं कृत्वा रामनाम लिखितम् एकम् आच्छादनं तस्य शरीरे धृत्वा अटति स्म। 

एकदा सः एकस्य सरोवरस्य समीपं गत्वा मूषकानां गर्तः यत्र भवति तत्र गत्वा प्रलापयति  स्म। 
सः रामनाम जपन् मूषकान् आहूय कथयति भोः मूषकाः! पश्यन्तु अहं भक्तः अभवम् इति। 

मूषकः तस्य कथनं श्रुत्वा उक्तवान् कथं भवति वयं विश्वासं कुर्याम यतोहि भवान् पूर्वं प्रतिदिनम् अस्मान् हत्वा खादति स्म इति। 

मार्जारः पुनः कथयति न न, अहं तु तत् सर्वं त्यक्तवान्। अहं युष्माकं मातुलः अस्मि। अतः यूयं सर्वे मम पुरतः आगत्य मां नमस्कुरुत इति। 

मूषकः तदा कथयति नैव! वयं भवतः पुरतः न गच्छामः। भवति विश्वासः न भवति इति। 

यदा तस्य मार्जारस्य चातुर्येणापि मूषकान् वशीकर्तुं न शक्तवान् तदा सः मार्जारः कुपितः भूत्वा ततः निर्गतवान्। 

*ज्ञातव्यम् अस्ति यद् दुष्टेषु विश्वासः न करणीयः इति।*
*-प्रदीपः!*

No comments:

Post a Comment