पठ्-धातोः कानिचन रूपाणि --
१. सः गीतां पठति । -- लट् ।
२. तेन गीता पठ्यते । -- कर्मणि ।
३. गुरुः गीतां पाठयति । -- णिच् ।
४. अहं प्रतिदिनं गीतां पठित्वा एव भोजनं करोमि । -- क्त्वा ।
५. लता गीतां प्रपठ्य अन्यत् कार्यं करोति । -- ल्यप् ।
६. रमा अपि गीतां पठितुम् इच्छति । -- तुमुन् ।
७. सर्वैः अपि गीतापुस्तकं पठितव्यम् । -- तव्यत् ।
८. छात्रैः पाठ्यपुस्तकं सम्यक् पठनीयम् । -- अनीयर् ।
९. रामः व्याकरणग्रन्थं पठितवान् । -- क्तवतु ।
१०. माधवेन अपि साहित्यग्रन्थः पठितः । -- क्त , इति ।
अन्यरूपाणि अपि प्राप्यन्ते, विस्तरभयात् सर्वाणि अत्र नोल्लिखितानि ।
-- नारदः, ०६/१२/१९.
No comments:
Post a Comment