एकस्य युवकस्य महद् दुःखम् आसीत् यत् कापि युवती तेन सह वार्तालापं न करोति तं न पश्यति च।
तस्य समस्यायाः निवारणाय एकस्य पण्डितस्य समीपं गत्वा तं सर्वं श्रावितवान्।
पण्डितमहाशयः तस्य समस्यायाः समाधानं कुर्वन् उक्तवान्- भवान् एकं कार्यं करोतु, श्वः आरभ्य भवान् उपनेत्रं धरतु एतेन भवतः समस्यायाः समाधानं भविष्यति इति।
सः अपि पण्डितमहोदयस्य उपदेशानुसारं तथैव कृतवान्।
सः इदानीम् उपनेत्रं धृत्वा यत्र कुत्रापि भ्रमणं कर्तुम् आरब्धवान्।
परन्तु तस्य समस्यायाः समाधानं नाभवत्। पूर्वं यथा आसीत् इदानीं तु सः ततः निराशः अधिकः अभवत्, कारणम् अधुना तं दृष्ट्वा जनाः हसन्ति स्म।
मां दृष्ट्वा जनाः किमर्थं हसन्ति इति ज्ञातुम् एकस्य वृद्धस्य समीपं गत्वा पृष्टवान् ( वृद्धस्य समीपं गत्वा पृष्टवान् इत्युक्ते वृद्धाः कदापि मिथ्या न वदन्ति) हे महात्मन्! जनाः मां दृष्ट्वा किमर्थं हसन्ति कृपया वदतु इति।
सः वृद्धः तं सम्यक् अवलोक्य उक्तवान् (वृद्धस्य दृष्टिशक्तिः किञ्चित् न्यूना आसीत्) उपनेत्रेन भवान् उलूकः इव दृश्यते।
तदा सः युवकः झटिति उपनेत्रम् उद्घाट्य पुनः तं वृद्धं पृष्टवान् इदानीं पश्यतु कथं दृश्यते इति।
सः वृद्धः पुनः सम्यग् अवलोक्य उक्तवान् इदानीं तु भवान् गर्दभः इव दृश्यते इति।
वृद्धस्य वचनं श्रुत्वा सः अत्यन्तं दुःखितः अभवत् पुनः च तं पृष्टवान् महोदय। इदानीं मया किं करणीयम् अस्ति येन मम मुखं सुन्दरं भवेत् इति।
सः वृद्धः तदा उक्तवान् एकं कार्यं करोति चेत् समीचीनं स्यात्। वैद्यस्य समीपं गत्वा भवतः मुखस्य शल्यक्रियां कारयति चेत् भवतः मुखं सुन्दरं भविष्यति इति।
वृद्धस्य परामर्शं श्रुत्वा सः वैद्यस्य समीपं गतवान्।
इदानीं तस्य शल्यक्रियां प्रचलति।
क्रमशः ......
*-प्रदीपः!*
No comments:
Post a Comment