*एका लघ्वी कथा।!*
------------------------------------
एकस्मिन् मन्दिरे एकस्य युवकस्य विवाहः आसीत्।
तस्मिन् विवाहोत्सवे बहवः जनाः कुटुम्बिनः उपस्थिताः आसन्। बह्व्यः महिलाः शिशवः अपि आसन्।
वरः कन्या च आनन्देन आस्ताम्।
तदा ब्राह्मणः विवाहात् प्राक् तत्रस्थान् सर्वान् सम्बोधयन् उक्तवान्- अस्मिन् विवाहे उपस्थापितानां मध्ये कस्यापि पुरुषस्य महिलायाः वा आपत्तिः अस्ति चेत् वक्तुं प्रष्टुं च शक्नोति इति।
आपत्तेः कारणमपि कथयेत् इति।
तदा सर्वे तूष्णीम् एव आसन्।
सहसा तदा एका सुन्दरी महिला तस्याः अङ्के एकं शिशुं नीत्वा पृष्ठतः वेगेन ब्राह्मणस्य समीपम् आगतवती आसीत्।
सा महिला वेगेन ब्राह्मणस्य समीपम् आगच्छति इति दृष्ट्वा कन्या वरस्य कपोलाय एकां महतीं चपेटिकां दत्तवती।
तदा सः वरः तस्य कपोले हस्तेन मर्दनं कुर्वन् आसीत् तदानीमेव तस्य माता एतद् दृष्ट्वा मूर्च्छिता अभवत्।
वरस्य पिता अपि अत्र किं प्रचलद् अस्ति इति स्थितिम् अवगन्तुं वरस्य मातुः समीपं धावित्वा गतवान्।
सर्वे उपस्थिताः जनाः कुटुम्बिनः च विस्मिताः अभवन्, किम् अभवत्, किम् अभवत् इति।
तदा सः ब्राह्मणः परिस्थितिं नियन्त्रणं कुर्वन् तां महिलां पृष्टवान् पुत्रि! स्पष्टरूपेण कथयतु, वरं प्रति भवत्याः कापि आपत्तिः अस्ति वा इति।
तदा सा महिला ब्राह्मणम् उक्तवती हे गुरुदेव! भवान् तदा किम् उक्तवान् आसीत् इति अहं पृष्ठतः न श्रुतवती। भवतः कथां श्रोतुम् अहं पृष्ठतः अत्र भवतः समीपम् आगतवती। 😛😆
*-प्रदीपः!*
No comments:
Post a Comment