इदं उद्यानं वर्तते।
उद्यानमिदं आचार्यस्य शइकियामहोदयस्य वर्तते।
अस्मिन् उद्याने केवलं पुष्पाणि सन्ति।
एकदा अनिलः पूजार्थं पुष्पाणि आचार्यम् अयाचत।
आचार्यः अपि आनन्देन स्वयं पुष्पाणि चित्वा तस्मै कण्डोलं पूरयित्वा दत्तवान्।
इमां वार्तां श्रुत्वा दुष्ट रञ्जनः मौनेन तत्र पुष्पाणि चोरयित्वा आनेतुं गतवान्।
उद्यानस्य भित्तिं सः यदा आरुढवान् तदा ततः पतित्वा तस्य एकः पादः भग्नः अभवत्।
तस्य चिकित्सार्थं सः मासद्वयं चिकित्सालये आसीत्।
यदा पुनः तस्य स्वास्थ्यं समीचीनं अभवत् तदा ततः आगत्य आचार्यं सर्वं सत्यम् उक्त्वा तं क्षमां याचितवान्।
(शङ्करदेवशिशुनिकेतन-विद्यालयस्य तृतीयकक्षायाः असमीयापुस्तकात् संगृहीतं मया)
*-प्रदीपः!*
No comments:
Post a Comment