Thursday, January 30, 2020

Sanskrit sloka-from raghuvamsha

वधनिर्धूतशापस्य कबन्धस्योपदेशतः।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ॥
रघुवंशमहाकाव्यम्॥१२.५७॥

वधेन रामकृतेन निर्धूतशापस्य देवभुवं गतस्य कबन्धस्य रक्षोविशेषस्योपदेशतो कथनाद् रामस्य समानव्यसने समानापदि। सख्यार्थिनीत्यर्थः। हरौ कपौ सुग्रीवे। सख्यं मुमूर्च्छ ववृधे प्रवृद्धमित्यर्थः।

No comments:

Post a Comment