*एकमेव पापं सर्वपुण्यस्य फलं नाशयति!*
महाभारतस्य युद्धस्य समाप्तेः परं यदा भगवान् श्रीकृष्णः स्वभवनं प्रत्यागतवान् आसीत् तदा कुपिता रुक्मिणी तं पृष्टवती हे भगवन्!
युद्धे तु सर्वं समीचीनम् आसीत् परन्तु द्रोणाचार्यः च भीष्मः यथा धर्मात्मानौ आस्ताम्, तयोः वधं कर्तुं भवान् किमर्थं साहाय्यम् अकरोत्?
श्रीकृष्णः तदा उक्तवान् आम्, सत्यम्। तौ उभौ अपि धर्मात्मानौ आस्ताम्।
आजीवनं तौ धर्मस्य पालनम् अकुरुताम्। परन्तु ताभ्यां कृतम् एकमेव पापं तयोः सर्वपुण्यस्य फलम् अहरत्।
किम् आसीत् तत् पापम् इति रुक्मिणी पुनः अपृच्छत्।
यदा हस्तिनापुरसभायां द्रौपद्याः चीरहरणं दुःश्वासनेन कृतम् आसीत् तदा तस्यां सभायां द्रोणाचार्यः च पितामहाः भीष्मः अपि उपस्थितौ आस्ताम्।
द्रौपद्याः चीरहरणं दृष्ट्वा अपि तौ विरोधं न अकुरुताम्। इदमेव तयोः महापापं अभवत्।
कर्णः तु महादानी आसीत्। यदि कोऽपि तस्य द्वारं गच्छति चेत् सः रिक्तहस्तं न प्रत्यागच्छति कदापि। तर्हि तं हन्तुं भवान् किमर्थं साहाय्यम् अकरोत् इति पुनः रुक्मिणी अपृच्छत्।
तदा श्रीकृष्णः उक्तवान् प्रिये! त्वं सत्यं कथयसि यत् सः कर्णः दानाय सर्वत्र प्रसिद्धः आसीत् परन्तु यदा अभिमन्युः युद्धे आहतः सन् भूमौ पतितः आसीत् तदा सः पिपासितः आसीत्।
कर्णं सः जलं अयाचयत् परन्तु सः तस्मै जलं न अददात्।
तदेव तस्य पतनस्य कारणम्।
तत्कारणतः तस्य सर्वपुण्यस्य फलं समाप्तं जातम् आसीत् इति।
*-प्रदीपः!*
No comments:
Post a Comment