विपणिं गत्वा पतिः तस्य पत्न्याः हस्तं गृहीत्वा अटन् आसीत्।
तदा तस्य एकः मित्रम् तौ दृष्ट्वा तयोः समीपम् आगत्य उक्तवान् भोः मित्र! भवतोः विवाहस्य बहूनि वर्षाणि अभवन् परन्तु अद्यापि भवतोः पतिपत्न्योः प्रेम दृष्ट्वा अहं नितरां मोदितोऽस्मि।
सः पतिः उक्तवान् नैव मित्र। एवं नास्ति किमपि। यदि अहं तस्याः हस्तं त्यजामि तर्हि अनुक्षणं सा कस्यापि आपणं प्रविशति। 🤨
*-प्रदीपः!*
No comments:
Post a Comment