*असमराज्यस्य विषये काश्चन स्मरणीयाः कथाः।*
असमराज्यं भारतस्य अन्यतमं राज्यं वर्तते। प्राचीनकाले अस्य राज्यस्य नाम प्राग्ज्योतिष्पुरः आसीत्।
रामायणे महाभारते च प्राग्ज्योतिष्पुरस्य उल्लेखः अस्ति।
महाभारतकाले कुरुक्षेत्रे युद्धे प्राग्ज्योतिष्पुरस्य राजा भगदत्तः कौरवाणां पक्षे पाण्डवानां विरुद्धे युद्धम् अकरोत्।
भीमः बड़ोजात्याः कन्यां हिडिम्बां विवाहम् अकरोत्। तयोः पुत्रः घटोत्कचः पाण्डवानां पक्षे स्थित्वा कौरवाणां विरुद्धे युद्धम् अकरोत्।
तथैव अर्जुनः अपि मनिपुरस्य कन्यां उलुपीं विवाहम् अकरोत्।
तयोः पुत्रः आसीत् वीरः बब्रुबाहनः।
सः बब्रुबाहनः पाण्डवानाम् अश्वमेधयज्ञस्य अश्वम् अज्ञात्वा गृहीतवान् आसीत् अपिच तस्य पित्रा सह युद्धमपि अज्ञात्वा अभवत्।
भगवान् श्रीकृष्णः अपि असमराज्यम् आगच्छत्।
भगवान् श्रीकृष्णः भीष्मकस्य राज्ञः पुत्रीं रुक्मिणीं विवाहम् अकरोत्।
भगवान् श्रीकृष्णः द्वारकायाः राजा आसीत्।
द्वारका वर्तमाने गुजरातराज्ये अवस्थिता वर्तते।
तदानीं शोणितपुरस्य राजा (वर्तमाने असमराज्यस्य तेजपुरजनपदः) आसीत् बाणः।
श्रीकृष्णः तदा तस्य पौत्रेण अनिरुद्धेन सह राज्ञः बाणस्य पुत्र्याः ऊषायाः विवाहम् अकारयत्।
तदर्थमेव राज्ञा बाणेन सह भगवतः श्रीकृष्णस्य युद्धम् अभवत्।
राजा बाणः भगवतः शिवस्य परमभक्तः आसीत्।
परन्तु अस्मिन् युद्धे भगवता श्रीकृष्णेन सह तस्य बाणस्य पराजयः अभवत् इति शुभम्।
*-प्रदीपः!*
No comments:
Post a Comment