Friday, December 6, 2019

Testing of wife,sastra - Sanskrit slokas

महाहवे शस्त्र(शास्त्र)-भृतां परीक्षा
हुताशने हाटक सम्परीक्षा ।
आपत्तिकाले गृहिणी परीक्षा
विद्यावतां भागवते परीक्षा ।।
***
महाहवे भीषणयुद्धक्षेत्रे शस्त्रभृतां परीक्षा ; महाहवे यज्ञादि शास्त्रीयकार्ये शास्त्रभृतां परीक्षा च ।।
आहवौ यागसङ्गरौ इति त्रिकाण्डशेषे ।
आहवो युद्धयज्ञयोः इति मेदिनी ।
*आ पूर्वः ह्वे-स्पर्धायाम् ; शब्दे आह्वानेsर्थे च । अप् प्रत्ययः । सम्प्रसारणे गुणः । आहूयन्तेsरयोsत्र ।।
*आ पूर्वः हु-होमे अदने च । अप् प्रत्ययः । आहूयतेsत्र ।।
***
[धनञ्जये हाटक सम्परीक्षा
रणाङ्गणे शस्त्रभृतां परीक्षा ।
आपत्तिकाले गृहिणी परीक्षा
विद्यावतां भागवते परीक्षा ।।]

No comments:

Post a Comment