Monday, November 11, 2019

Secret meeting of elders on a river bank -Sanskrit joke

विवाहस्य पञ्चाशत् वर्षाणि अतीतानि! 

पितामहः सहसा एकस्मिन् दिने पितामहीम् उक्तवान् अयि शृणोतु! इदानीं आवां वृद्धौ जातौ ! आवां पूर्वं यथा आस्व तथा पुनः एकवारं भविष्यावः! 

तत् कथं सम्भवेत् इति पितामही उक्तवती! 

विवाहात् पूर्वं यथा आवयोः नद्याः तीरे मेलनं भवति स्म तथैव पुनः अहं नद्याः तीरं गत्वा भवत्याः प्रतिक्षां करिष्यामि भवती अपि तत्र गत्वा मया सह मिलतु इति! 

अस्तु इति पितामही उक्तवती! 

अनन्तरे दिने पितामहः नद्याः तीरं गतवान्! प्रातःकालात् सायंकालपर्यन्तं सः पितामह्याः प्रतिक्षाम् एव कुर्वन्नासीत् परन्तु पितामही न गतवती! 

कुपितः सन् पितामहः गृहम् आगत्य पितामहीम् उक्तवान्- किम् अभवत्? किमर्थं न गतवती? अहम् एतावत्कालपर्यन्तं भवत्याः प्रतिक्षाम् एव कुर्वन् आसम्? 

तदा पितामही लज्जया किञ्चित् हसित्वा उक्तवती मम माता तत्र गन्तुं निषेधितवती 😂
*-प्रदीपः!*

No comments:

Post a Comment