Friday, November 15, 2019

Onion rate is high - Sanskrit joke

ह्यः एकम् आपणं गत्वा पञ्चकिलोपरिमितं पलाण्डुः ददातु इति आपणिकम् उक्तवान् आसम्!

तदानीं पार्श्वे स्थिता एका महिला तस्याः पतिम् उक्तवती भोः! एषः युवकः एव आवयोः पुत्र्याः पतिरूपेण अत्यन्तं योग्यः अस्ति!

एतच्छ्रुत्वा तु अहं अर्धघण्टापर्यन्तं मूर्च्छितः आसम्! 

No comments:

Post a Comment