श्रावणपूर्णिमामहत्त्वम्
******
(१)
अद्य श्रावणपूर्णिमा प्रतिगृहे प्रीत्या जनैः पाल्यते
गोसेवाबलदेवपूजनमहो कुर्वन्ति रम्योत्सवम्।
भ्रातुर्मङ्गलकामिनी हि भगिनी स्नेहार्थिनी सादरं
रक्षावन्धनमानसी करतटे बध्नाति सूत्रं महत्॥
(२)
अस्मिन् पर्वणि संस्कृतस्य दिवसो देशे मुदा पाल्यते
तद्वाणीगुरुतां विचार्य विबुधा व्याप्तैर्यतन्ते सदा।
शिष्या यान्ति निजालयाद् गुरुकुलान् ख्यातानुपाकर्मणे
वेदज्ञानमहामृतस्य ग्रहणात् तेषां यशो वर्द्धते॥
(व्रजकिशोरः)

No comments:
Post a Comment