Tuesday, October 1, 2019

On sanskrit

बलं संस्कृतं मे धनं संस्कृतं मे
गतिस्संस्कृतं मे धृति स्संस्कृतं मे ।
क्षुधा संस्कृतं मे पिपासा च नूनं
यशस्संस्कृतेनापि सौन्दर्यमेतत् ।।(1)

न गीतासुधा कोशलेशस्य गाथा
न गोपाललीला  न  वेदप्रकाशः ।
न नीतिर्न न गीतिस्तथा संस्कृतिश्च
विना संस्कृतं नेतिहासस्य चर्चा।।(2)

न बुद्धोपदेशाः महावीरजैनाः
न विज्ञानशिक्षा खगोलस्य विद्या।
न शून्यं ग्रहाणां स्थितिश्चान्तरिक्षे
विना संस्कृतं ज्ञानमेतत् कथञ्च ।।(3)

कविर्व्यासभासादयः कालिदासः
जगन्नाथदण्डी तथा बाणभट्टी
महाभारतं पञ्चतन्त्रोपदेशाः
विना संस्कृतं नैव कौटिल्यनीतिः।।(4)

छन्दः----भुजंगप्रयातम्

No comments:

Post a Comment