एकदा भूपतिर्कोऽपि
दयालुर्धार्मिकस्तथा ।
देवालयं गिरीशस्य
पूजार्थं गतवानसौ।।(1)
देवालयमुपागम्य
दृष्टवान् भिक्षुकद्वयम्।
वामे तत्र तयोरेकः
द्वितीयो दक्षिणे तथा।।(2)
यदा राजा गिरीशस्य
पूजां कर्तुं प्रचक्रमे ।
देवालयाद्बहिस्तत्र
शुश्राव याचनां द्वयोः।।(3)
वामभागे स्थितो भिक्षु-
रुच्चैरुच्चैः स भाषते ।
राजन् तुभ्यं भृशं दत्तं
प्रभुणा मेऽपि दीयताम्।।(4)
एवमेव द्वितीयोऽपि
तारस्वरेण भाषते।
यथा राज्ञे त्वया दत्तं
देहि मे भगवन् भृशम्।।(5)
तूष्णीभूय ततो राजा
प्रासादमाजगाम सः।
एकान्ते मननं कृत्वा
युक्तिमेकमचिन्तयत्।।(6)
क्षीरेण पूरिते पात्रे
प्रस्थाप्य स्वर्णमुद्रिकाम्।
आहूय मन्त्रिणं प्राह
मन्दिरं गच्छ सत्वरम्।।(7)
वामस्थं भिक्षुकं देहि
घटं क्षीरेण पूरितम्।
ततस्तेन यथाशीघ्रं
कृतं यथानुशासितम्।।(8)
क्षीरं प्राप्य वराकः स
यथेच्छं पीतवाँस्तदा।
तृप्तो ददाति पात्रं स
मित्राय सानुकम्पया।।(9)
प्रोक्तवाँस्तदा भिक्षुः
नृपो ददाति नो प्रभुः।
पिबति सत्वरं क्षीरं
सोऽपि भिक्षुः द्वितीयकः।।(10)
घटस्याधस्तले दृष्ट्वा
स्वर्णमुद्रां स भिक्षुकः।
स्मरन्नारायणं विष्णुं
तूष्णीभूय गृहं गतः।।(11)
अपरस्मिन् दिने राजा
देवालयं गतो यदा।
तत्रैकं भिक्षुकं दृष्ट्वा
कुत्रापरश्च पृच्छति।।(12)
उवाच भिक्षुको मुग्धो
मूढो नाद्य समागतः।
वृथा भगवतो याच्ञा
नित्यं तथापि याचते।।(13)
अवशिष्टं मया दत्तं
क्षीरं पीत्वापि भाषते।
भगवद्कृपया प्राप्तं
सैष दाता जनार्दनः।।(14)
श्रुत्वा तद्वचनं राजा
विहस्य प्रोक्तवाँस्तदा।
सत्यं पीताम्बरो दाता
चक्रपाणिः रमापतिः।।(15)
---मार्कण्डेयो रवीन्द्रः
दयालुर्धार्मिकस्तथा ।
देवालयं गिरीशस्य
पूजार्थं गतवानसौ।।(1)
देवालयमुपागम्य
दृष्टवान् भिक्षुकद्वयम्।
वामे तत्र तयोरेकः
द्वितीयो दक्षिणे तथा।।(2)
यदा राजा गिरीशस्य
पूजां कर्तुं प्रचक्रमे ।
देवालयाद्बहिस्तत्र
शुश्राव याचनां द्वयोः।।(3)
वामभागे स्थितो भिक्षु-
रुच्चैरुच्चैः स भाषते ।
राजन् तुभ्यं भृशं दत्तं
प्रभुणा मेऽपि दीयताम्।।(4)
एवमेव द्वितीयोऽपि
तारस्वरेण भाषते।
यथा राज्ञे त्वया दत्तं
देहि मे भगवन् भृशम्।।(5)
तूष्णीभूय ततो राजा
प्रासादमाजगाम सः।
एकान्ते मननं कृत्वा
युक्तिमेकमचिन्तयत्।।(6)
क्षीरेण पूरिते पात्रे
प्रस्थाप्य स्वर्णमुद्रिकाम्।
आहूय मन्त्रिणं प्राह
मन्दिरं गच्छ सत्वरम्।।(7)
वामस्थं भिक्षुकं देहि
घटं क्षीरेण पूरितम्।
ततस्तेन यथाशीघ्रं
कृतं यथानुशासितम्।।(8)
क्षीरं प्राप्य वराकः स
यथेच्छं पीतवाँस्तदा।
तृप्तो ददाति पात्रं स
मित्राय सानुकम्पया।।(9)
प्रोक्तवाँस्तदा भिक्षुः
नृपो ददाति नो प्रभुः।
पिबति सत्वरं क्षीरं
सोऽपि भिक्षुः द्वितीयकः।।(10)
घटस्याधस्तले दृष्ट्वा
स्वर्णमुद्रां स भिक्षुकः।
स्मरन्नारायणं विष्णुं
तूष्णीभूय गृहं गतः।।(11)
अपरस्मिन् दिने राजा
देवालयं गतो यदा।
तत्रैकं भिक्षुकं दृष्ट्वा
कुत्रापरश्च पृच्छति।।(12)
उवाच भिक्षुको मुग्धो
मूढो नाद्य समागतः।
वृथा भगवतो याच्ञा
नित्यं तथापि याचते।।(13)
अवशिष्टं मया दत्तं
क्षीरं पीत्वापि भाषते।
भगवद्कृपया प्राप्तं
सैष दाता जनार्दनः।।(14)
श्रुत्वा तद्वचनं राजा
विहस्य प्रोक्तवाँस्तदा।
सत्यं पीताम्बरो दाता
चक्रपाणिः रमापतिः।।(15)
---मार्कण्डेयो रवीन्द्रः
No comments:
Post a Comment