Friday, October 18, 2019

Sanskrit joke

विद्यालये शिक्षकः छात्रान् पृष्टवान्- अस्मिन् जगति वास्तविकप्रेमप्रतीकं किम्? 

छात्राः सर्वे एकस्वरेण उत्तरितवन्तः ताजमहल इति!

परन्तु अन्ते एकः छात्रः आसन्दात् उत्थाय उक्तवान्- श्रीमन्! वास्तविक प्रेम्नः प्रतीकं तु रामसेतुः वर्तते! यश्च विश्वप्रसिद्धः अस्ति! 

शिक्षकः- तत् कथम्? 

छात्रः - भगवान् रामः स्वस्य प्रियायाः पत्न्याः सीतायाः रक्षणार्थं समुद्रस्य उपरि वानरैः सेतोः निर्माणं कारयित्वा लङ्कां गत्वा रावणेन सह युद्धं कृत्वा तस्य प्रियायाः रक्षां कृतवान् आसीत्! 

अन्ते च भगवान् सर्वान् वानरान् अपि सम्मानितवान् ! 

परन्तु शाहजाहां यत् कृतवान् तत् प्रेम न अपितु वासना क्रूरता च आसीत्! 

यैः श्रमिकैः सः शाहजाहां ताजमहलस्य निर्माणं कारितवान् आसीत् तेषां समेषां श्रमिकानां हस्तौ खड्गेन खण्डितवान् आसीत्! 
🌹🌷
*-प्रदीपः*

No comments:

Post a Comment