हनुमदष्टकम्
दशाननस्य काञचनेन निर्मितं पुरं हि यत्
ददाह लीलया सुसेवको रघूत्तमस्य तत्।
विदेहनन्दिनीकृपाष्टसिद्धिदायकं प्रभुं
नमामि वायुपुत्रमौरसं शिवांशजं कपिम् ।।(1)
रघूत्तमः स राघवः हृदि स्थितो हि मारुतेः
ददर्श मानसं विदार्य कोशलेशराघवम्।
भयङ्करो निशाचराय जानकीकृते लघुः
नमामि वायुपुत्रमौरसं शिवांशजं कपिम्।।(2)
करे च सौषधं गिरिं दधाति वायुनन्दनः
गदायुधः प्रयाति वानरोऽन्तरिक्षमण्डले।
नमन्ति नारदश्च शारदा वसुन्धराधरो
नमामि वायुपुत्रमौरसं शिवांशजं कपिम् ।।(3)
गुणाकरं महाकपिं भटं दिनेशभक्षकं
पिशाचभूतघातकं विपद्गतस्य रक्षकम्।
कचैश्च कुञ्चितैः सुशोभितं खमार्गगामिनं
नमामि वायुपुत्रमौरसं शिवांशजं कपिम् ।।(4)
विभीषणस्य वानराधिपस्य चोपकारकं
निशाचरेशरावणस्य वाटिकाविनाशकम्।
महीधरस्य धारकञ्च लक्ष्मणस्य रक्षकं
नमामि वायुपुत्रमौरसं शिवांशजं कपिम्।।(5)
यदा रसातलस्य रावणः प्रगृह्य सानुजं
प्रभुं कुलेश्वरीसमर्चनाय याति मन्दिरम्।
हतो वनौकसा तदा ससैन्यदानवश्च तं
नमामि वायुपुत्रमौरसं शिवांशजं कपिम्।।(6)
हता च येन लङ्किनी तथाक्षयो रिपोःसुतः
प्रजापतेश्च गौरवे विधातृपाशबन्धनम्।
निकेतने दशाननस्य निर्भयो स्थितो हि तं
नमामि वायुपुत्रमौरसं शिवांशजं कपिम्।।(7)
बलं न दुर्बलो जनो मनीषया हि वञ्चितो
धनं न निर्धनस्ततो न बान्धवाः न सुहृदः।
स एव रक्षकः स एव पालकस्ततो हि तं
नमामि वायुपुत्रमौरसं शिवांशजं कपिम्।।(8)
छन्दः---पञ्चचामरम्
----- मार्कण्डेयो रवीन्द्रः
No comments:
Post a Comment