डाँ सर्वपल्ली राधाकृष्णन्!!
ड. सर्वपल्ली -राधाकृष्णन्- महोदयस्य जन्म 1888(अष्टाशीतिः-उत्तर- अष्टदशशतं ) तमे ख्रिष्टाब्दे सितम्बर मासस्य पञ्चमदिनाङ्के तमिलनाडु राज्ये एकस्मिन् साधारणपरिवारे तिरुतनि नामके एकस्मिन् ग्रामे अभवत्!
तस्य पितुः नाम सर्वपल्ली वीरास्वामी मातुः नाम च सिताम्मा आसीत्!
बाल्यकाले राधाकृष्णन्- महोदयस्य पुस्तकानि पठने महती रुचिः आसीत्!
तेन राधाकृष्णन् -महोदयेन बाल्ये तस्य ग्रामे च तिरुपतिः मन्दिरे जीवनं यापितम् !
सः राधाकृष्णन् महोदयः भारतस्य प्रथमः उपराष्ट्रपतिः आसीत् तदनन्तरं सः राष्ट्रपतिः अपि अभवत्!
माद्रास्- प्रेसिडेन्सी - महाविद्यालयतः तस्य अध्ययनस्य समाप्तेः परं मैसूर- महाविद्यालये प्राध्यापकरूपेण तस्य नियुक्तिः अभवत्!
तत्पश्चात् सः समस्तभारते बहुषु महाविद्यालयेषु शिक्षणकार्यं कृतवान् आसीत्!
1939 तः - 1948 तमवर्षपर्यन्तं सः बनारस-विश्व-हिन्दू- महाविद्यालयस्य कुलपतिः अपि आसीत्!
सः एकः दर्शनशास्त्री, भारतीयसंस्कृतेः संवाहकः तथा च आस्तावान् हिन्दुविचारकः आसीत्!
अस्य महतः शिक्षकस्य सम्मानाय तस्य जन्मदिनं समस्तभारते शिक्षकदिवसरूपेण मन्यते इति शुभम्!
--------------------------------------
सर्वेभ्यः शिक्षकेभ्यो गुरुभ्यो मम सादरं प्रणामाः! शिक्षकदिनस्य हार्दाः शुभकामनाः! 🌷🙏
-प्रदीपः

No comments:
Post a Comment