Friday, October 4, 2019

17th septemeber is Modi's birthday - Sanskrit article

अद्य सितमबर-मासस्य सप्तदश-दिनाङ्कः!

अस्माकं देशस्य वर्तमान-यशस्वी-प्रधानमन्त्री-मोदिवर्यस्य जन्मदिनं वर्तते!

1972 तमे ख्रिष्टाब्दे मोदिवर्यः राष्ट्रीय-स्वयंसेवक-सङ्घ इति सङ्घटनं प्रविश्य सक्रियरूपेण सङ्घटनस्य कार्यम् आरब्धवान् आसीत्!

1975 तमे ख्रिष्टाब्दे देशस्य प्रधानमन्त्रिणा इन्दिरा-गान्धिना समग्रे देशे आपत्कालः समाहितः कृतः आसीत्!

तस्मिन् समये मोदिवर्येण तस्य आपत्कालस्य तीव्रविरोधः कृतः!
मोदिवर्यस्य विरोधं दृष्ट्वा तदानीं प्रधानमन्त्री इन्दिरा तं ग्रहीतुम् आरक्षकान् आदिष्टवती आसीत्, आरक्षकाः अपि तस्य मोदिवर्यस्य बहु अन्वेषणं कृतवन्तः आसन् परन्तु सः मोदिवर्यः तस्य वेषं परिवर्त्य हिमाचलप्रदेशस्य एकस्मिन् मन्दिरे गुह्य जीवनं यापितवान् आसीत्!

1987 तमे ख्रिष्टाब्दे सः मोदिवर्यः राजनीतौ भाजपादले  प्रविष्टवान्!

1995 तमे ख्रिष्टाब्दे सः भाजपादलस्य राष्ट्रीयसचिवः अभवत्!

1998 तमे ख्रिष्टाब्दे सः मोदिवर्यः भाजपादलस्य राष्ट्रीय-महासचिवः अभवत्!

2001 तमे ख्रिष्टाब्दे गुजरातराज्यस्य मुख्यमन्त्री अभवत्!  
मोदिवर्यः त्रिवारं गुजरातराज्यस्य मुख्यमन्त्री आसीत्!

तदनन्तरं सः 2014 तमे ख्रिष्टाब्दे प्रथमवारं भारतस्य प्रधानमन्त्री अभवत्!

2017 तमे ख्रिष्टाब्दे इजराइल देशं गतवान् आसीत्!  सः एव भारतस्य प्रथमः प्रधानमन्त्री यः इजराइल देशं गतवान् !

द्वितीयवारम् अपि पुनः 2019 तमे ख्रिष्टाब्दे सः मोदिवर्यः भारतस्य प्रधानमन्त्री अभूत्!

अस्य वर्षस्य अगस्तमासस्य पञ्चमदिनाङ्के  जम्मूकश्मीेरात् धारा 370 इति अनुच्छेदस्य  अपाकरणं कृतवान्!

सः एव भारतस्य सर्वश्रेष्ठः प्रधानमन्त्री यः अस्माकं देशस्य हिताय सर्वजनहिताय च बहूनि कार्याणि कृतवान्!

तस्मै प्रधानमन्त्रिणे जन्मदिनस्य हार्दाः शुभकामनाः अभिनन्दनानि च! 🌹🙏
-प्रदीपः

No comments:

Post a Comment