courtesy:Sri.Narad Upadhyay,Assam
किञ्चित् हसामः -- (स्वरचना)
पुरातनी कथा इयम्। कश्चन कृषकः। सप्ताहात् परं तस्य पुत्र्याः विवाहः निश्चितः आसीत्। तत्समये जनाः यानेन न गच्छन्ति स्म, यत्र गन्तव्यं तत्र पादाभ्यामेव। तदा जनाः प्रायः कर्मशीलाः, आलस्यं तु तेषां समीपे नास्ति एव। विवाहे अतिथिभ्यः सम्यक् भोजनाय दध्यन्नं प्रदातव्यम् इति तस्य इच्छा। "माइलामहाजनः" कश्चन दुग्धविक्रेता सम्यक् दधिः ददाति इति तेन कदाचित् श्रुतम् आसीत्, किन्तु तस्य गृहं कुत्र इति सः न जानाति स्म। एकदा तदर्थं सः गृहतः प्रातरेव निर्गतवान्, पादाभ्यामेव, द्विचक्रिकायामपि आवस्यकं नासीत् तदा, कारणं द्विचक्रिकातः अपि वेगेन ते चलितुं शक्नुवन्ति स्म, तादृशाः साहसिनः तदानिन्तनाः जनाः। सः तु निर्गतवान् , परन्तु तद्दुग्धविक्रेतुः गृहं कुत्र इति तस्य सम्भ्रमः। दैवात् एकः वृद्धः मार्गे मिलितवान्। तं दृष्ट्वा उपसर्प्य च कृषकः पृष्टवान्- " महाशय ! माइलामहाजनस्य गृहं कस्यां दिशि वर्तते, भवान् जानाति वा ?" इति। वृद्धः उक्तवान्- "अहो, किमर्थं न जानामि, कुतो वा सः महाजनः, एकः सामान्यः दुग्धविक्रेता एव।" इति। "तर्ही शीघ्रम् उच्यताम्, तत्र प्राप्य मम पुनः वस्त्रापणः गन्तव्यः अस्ति। मम विवाहसम्बद्धा त्वरा, विलम्बः जायमानः अस्ति।" इति। "वदामि वदामि --- शृणोतु, इतः अनेन मार्गेण पूर्वदिशि गच्छतु गच्छतु गच्छतु गच्छतु-------( प्रायः दशवारम्) एकं विद्यालयं भवान् प्राप्स्यति। ततः पुनः गच्छतु गच्छतु गच्छतु गच्छतु ---- एकः महान् वटवृक्षः दृश्यते। ततः दक्षिणमार्गेण पुनः गच्छतु गच्छतु गच्छतु गच्छतु------- एका नदी प्राप्यते।" शीघ्रं वदतु महोदय, मम महती त्वरा" इति। आम्, वदन्नस्मि सम्यक् शृणोतु"इति। नौकया नदीं तीर्त्वा पुनः गच्छतु गच्छतु गच्छतु गच्छतु------एकः आपणः दृश्यते। ततः पुनः पूर्वमार्गेण गच्छतु गच्छतु गच्छतु गच्छतु------, मार्गे कोsपि जनः तु भवेदेव, तं पृच्छतु तस्य गृहं कुत्र इति। सः यत्र निर्दिशति, तत्रैव प्रविशतु।" इति। "अहो, मम तु महान् विलम्बः, कीदृशजनः मया लब्धः अत्र, कियत् दौर्भाग्यम् अद्य मम। एतावत् पर्यन्तं तु तत्गृहं प्राप्तं स्यादेव। हा हन्तः, भगवन् मां कुत्र पातितवान्। हे राम !" इति उक्त्वा सः ततः शीघ्रं धावितवान् इति।
--- नारदः, ०२/०८/१९.
No comments:
Post a Comment