Thursday, September 26, 2019

Sri Jagannatha Svaravesashtakam - Sanskrit poem

श्रीजगन्नाथस्य स्वर्णवेशाष्टकम् 
************************
(१)
हस्तौ स्वर्णैश्चरणकमले स्वर्णपादोपि यस्य
मस्ते स्वर्णैः पृथुलमुकुटं नाभिदेशे सुवर्णम्।
चक्रं स्वर्णं द्रविणजलजं शातकुम्भैर्गदा च
स्वर्णप्रेमी वितरतु शुभं श्रीजगन्नाथदेवः।।
(२)
नासास्थाने सुषमकनकं बाहुदेशे सुवर्णं
कर्णौ स्वर्णाभरणभरितौ स्वर्णहारा गलेपि।
वक्षोभागे कनककवचं नानास्वर्णं शरीरे
स्वर्णप्रेमी वितरतु शुभं श्रीजगन्नाथदेवः।।
(३)
एकादश्यां रजनिवदने स्यन्दने स्वर्णवेशो
घस्रस्यान्ते गगनसुषमा किं नु भाति प्रभौ वा।
वर्षागङ्गासलिलयमुनातोयशोभापि किं वा
स्वर्णप्रेमी वितरतु शुभं श्रीजगन्नाथदेवः।।
(४)
श्वेताभे बलभद्रदेववपुषि स्वर्णप्रभा भासते
केयूरे करयोः सुवर्णरचितौ हस्तौ च हस्तद्वये।
नासाग्रे कनकं शिरे सुमुकुटं वामे महालाङ्गलं
स्वर्णैः पादयुगं सुवर्णकवचं सर्वाङ्गके हाटकम्।।
(५)
स्वर्णै भाति च सुन्दरी गुणमयी दिव्या सुभद्राम्बिका
भालांशे चरणद्वये करयुगे कण्ठे च वक्षःस्थले।
नासाग्रे कटिभागकेतिरुचिरं देदीप्यते हाटकं
नानालंकरणैर्विराजति तनुः साक्षात् तडित् सा नु किम्।।
(६)
हारिद्रैर्वा विरचिततनुश्चम्पकैर्हाटकैर्वा
किं वा पीतोज्ज्वलरसयुता मूर्त्तिपङ्क्ति र्विभाति।
दार्वाङ्गेषु प्रलसति महाहाटकैर्द्रव्यराजि
स्तच्छोभाभिर्हसति भुवनं सेवको भक्तवृन्दम्।
(७)
स्वर्णैः पूर्णो नवघनतनुः पीतवस्त्रेण भाति
भ्राता स्वर्णैर्लसति नितरां हाटकैस्तस्य भग्नी
सेवाकर्मी ललितकनकैर्हारकेयूररम्यः।
स्वर्णप्रेमी वितरतु शुभं श्रीजगन्नाथदेवः।।
(८)
काष्ठाङ्गोपि त्रिपुरललितः कोटिकामप्रशंस्यः
रूपं द्रष्टुं मनुजनिकरो याति पुरीं च भक्त्या।
स्वर्णावेशं नयनविषयीकृत्य भक्ताः कृतार्थाः
स्वर्णप्रेमी वितरतु शुभं श्रीजगन्नाथदेवः।।
         (व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment