हास्यम्---
पुत्रः- पितः ! विद्यालये अद्य शिक्षकाः गृहे उत्तराणि सम्यक् लिखित्वा श्वः आनयन्तु इति अस्मान् उपदिष्टवन्तः सन्ति। अतः तात ! मह्यं किञ्चित् तदर्थं साहाय्यं करोतु।
पिता- स्वपाठकार्यं स्वयमेव करोतु। अलं मम साहाय्येन। तव वयसि रविन्द्रनाथठाकुरः कवितां लिखति स्म, ज्ञातम् ?
पुत्रः- ज्ञातम्, परन्तु भवतः अस्मिन् वयसि अपि सः नोवेलपुरस्कारं प्राप्तवान् आसीत्।
-- नारदः, ०३/०९/१९.
No comments:
Post a Comment