Monday, September 23, 2019

Bird advising a monkey- Sanskrit story

*उपदेशात् हानिर्भवति!!*

यमुनानद्याः तीरे एकः प्रकाण्ड वटवृक्षः आसीत्! 

तस्मिन् वृक्षे बहवः खगाः वानराः च निवसन्ति स्म!

खगाः सुखेन स्वस्य स्वस्य नीडे निवसन्ति! 
वृष्टिः वा भवतु चक्रवातः वा भवतु खगानां कापि चिन्ता न भवति!

एकदा चक्रवातेन सह अतीव वृष्टिः आसीत्! 
खगाः सर्वे तु नीडे एव आसन् परन्तु वानराः सर्वे कम्पमानाः वृक्षस्य अधः आसन्! 

वानराणाम् एतादृशीं दुरवस्थां दृष्ट्वा एकः खगः उक्तवान् भो वानराः! भवतां हस्तौ पादौ च सन्ति! अतः भवन्तः गृहनिर्माणं कृत्वा स्थातुं शक्यते! 

खगस्य उपदेशं श्रुत्वा एकः वानरः कुपितः सन् उक्तवान् वृष्टेः अनन्तरं दर्शयिष्यामि इति! 

पुनः च खगः उक्तवान्- अहं तु भवतां हिताय एव उक्तवान् आसम् इति! 

तदा वानराः सर्वे इतोऽपि कुपिताः अभवन्! दर्शयिष्यामः इति उक्तवन्तः ते! 

अनन्तरं यदा वृष्टिः शान्ता अभवत् तदा वानराः वृक्षम् आरुह्य खगानां नीडाः सर्वे भग्नं कृतवन्तः! 

तेन खगानां शावकाः भूमौ पतित्वा मृताः अभवन्! 

एतद् दृष्ट्वा खगाः सर्वे दुःखिताः अभवन् उक्तवन्तः च् कस्मै अपि सदुपदेशं दद्मः चेत् स्वस्य हानिरेव भवति!
🌷🌹
*प्रदीपः!!*

No comments:

Post a Comment