श्रावणपूर्णिमासप्तकम्
******
(१)
रम्या श्रावणपूर्णिमा खलु तिथिर्भूमण्डले भासते
गोमातुर्विविधोपचारसहितं सर्वत्र भव्यार्च्चनम्।
अद्य श्रीबलरामजन्मदिवसः पूपादिभिः पाल्यते
वित्ताय श्रमिका मृदः कृषिजना गम्हां प्लवन्ते मुदा।।
(२)
पुण्येस्मिन् दिवसे महाग्रहतया क्रीत्वापणाद् रक्षिणी
स्तस्या बन्धनकारणाय सकला भग्न्यो महातत्पराः।
भ्रातृस्नेहहृदो विधाय ससुखं स्वादिष्टमिष्टादिकं
दत्त्वा तस्य मुखे प्रपूज्य सरला बध्नन्ति राक्षीवरान्।।
(३)
कल्याणं बहु याचते भगवति भ्राता सदा स्यात् सुखी
नित्यं देव! सहायको भव मुदा नौमि त्वदंघ्रिद्वयम्।
तच्छ्रद्धा मयि राजतामविरतं मे जीवनं रक्षतु
तद्भक्तिं परिलोक्य सोदरवरः स्नेहेन दत्ते धनम्।।
(४)
एवं मङ्गलकांक्षिणी सुभगिनी स्याद् भ्रातृपार्श्वै यदि
दुःखं तस्य विनश्यतीह भुवने नूनं भवेद् भाग्यवान्।
भग्नी यस्य न विद्यते स सहते पीडां समाजाद् बहु
भ्राता वा प्रतिभातु नोद्यसमये भग्नी सदा तिष्ठतु।।
(५)
या भाषा सुरसेविता सुरसिणी वेदात्मरूपा वरा
सर्वज्ञानप्रदायिनी मुनिजनामोदप्रदा सात्त्विकी।
प्राचीनापि नवा समाङ्गललिता तत्त्वस्वरूपा सदा
तस्मादद्य च संस्कृतस्य दिवसो देशे मुदा पाल्यते।।
(६)
वेदज्ञानमहोषधौ कृतधियः शिष्या उपाकर्मणि
संपूज्यापि गुरुं विनम्रहृदयाः शिक्षां रभन्तेद्य च।
सानन्दं परिपाल्यतेद्य दिवसः सर्वत्र वेदालये
ख्यातेयं सुतिथिर्विशेषसुखदा श्रेष्ठं ततो भारतम्।।
(७)
कापिलं वसनं पिधाय मनुजा भारे गृहीत्वा जलं
मुक्तांघ्रीशहृदश्चलन्ति सरणौ वर्षासु रात्रावपि।
नद्यम्बु प्रभुशम्भुमस्तकपटे मासं प्रपात्य स्वयं
पूर्णाशाः फलधारिणो नतशिवाः श्रम्यन्ति शेषेद्य च।।
(व्रजकिशोरः)

No comments:
Post a Comment