Tuesday, August 13, 2019

Sound doesn't come with single hand-Sanskrit short story

*एकेन हस्तेन करताडनं न भवति!*

एकस्मिन् ग्रामे यतिन्द्रः तस्य पत्नी सविता निवसतः स्म! 
तयोः मध्ये प्रतिदिनं कोलाहलं भवति स्म! 

एतेन पार्श्वस्थाः सर्वे जनाः बहु कष्टम् अनुभवन्ति स्म! 

एकदा तं ग्रामम् एकः योगेश्वरः आगतवान्! 
सः सिद्धिं प्राप्तवान् इति वार्त्ता सर्वत्र प्रसृता आसीत्! 

सा सविता अपि योगेश्वरस्य महिमा श्रुतवती आसीत्! 

तदा सा योगेश्वरस्य समीपं गत्वा हे स्वामिन्! मम गृहे सर्वदा कोलाहलः भवति! एतेन पार्श्वस्थाः जनाः माम् उपहसन्ति ! एतेन अहं बहु कष्टम् अनुभवामि! 
अस्य निवारणाय कमपि उपायं ददातु इति उक्तवती!

सवितायाः वचनं श्रुत्वा योगेश्वरः किञ्चित् कालपर्यन्तं नेत्रे निमील्य उपविष्टवान् आसीत्! 

तत्पश्चात् सः नेत्रे उन्मील्य उक्तवान् पुत्रि! तव गृहे यत् कोलाहलं भवति तस्य निवारणाय अहं तुभ्यं दिव्यं जलं दास्यामि, तव पत्युः गृहम् आगमनात् पूर्वं त्वम् एतत् जलं मुखे स्थापयित्वा उपविश इति! 

तदा सा दिव्यं जलं स्वीकृत्य गृहम् आगतवती! 

तस्मिन् दिने सायंकाले पत्युः आगमनात् पूर्वं सा सविता मुखे तद् जलं स्थापयित्वा उपविष्टवती आसीत्! 

पति कार्यालयात् आगतवान्! 

सा तस्मै पानीयं दत्तवती! 

पति तद् जलं पीत्वा किम् एतत् पानीयं वा? 
पातुम् एव न शक्यते इति कटुवचनम् उक्तवान्! 

पत्युः कटुवचनं श्रुत्वा तस्याः अपि कोपः आगतः परन्तु योगेश्वरेण दत्तं जलं तस्याः मुखे आसीत् तदर्थं सा किमपि न उक्तवती! 

तदा सः गृहस्वामी अपि किमपि न पुनः उक्तवान् बहिः गत्वा अन्यत्र उपविष्टवान्! 

एवमेव कानिचन दिनानि अतीतानि, तस्याः गृहे कोलाहलः एव न श्रूयते स्म! 

पार्श्वस्थाः जनाः अपि प्रसन्नाः अभवन्! 

योगेश्वरेण दत्तं जलं समाप्तम् अभवत्! 

पुनः सा तस्य समीपं गतवती उक्तवती च ...
हे स्वामिन्! दिव्यं जलं सर्वं समाप्तम् अभवत्, इदानीं पुनः ददातु इति! 

तदा योगेश्वरः मृदु हसित्वा उक्तवान् हे पुत्रि! मया दत्तं जलं सामान्यजलम् एव आसीत्! 

वस्तुतः एकेन हस्तेन यथा करताडनं न भवति तथैव एकेन जनेन कदापि कोलाहलम् अपि न भवति! 

योगेश्वरस्य वचनं श्रुत्वा सा सविता संतुष्टा गृहं प्रत्यागतवती!
🌷🌺
*-प्रदीपः*

No comments:

Post a Comment