Thursday, August 22, 2019

Intelligent clerk - Sanskrit joke


*लिपिकस्य चातुर्यम्।*

प्रसंवेदकेन (contractor) सह चर्चा जाता इत्युक्त्वा लिपिकेन सञ्चिका अधिकारिणः पुरतः स्थापिता।

अधिकारिणा टिप्पणी लिखिता--

*APPROVED.*

दिनद्वयादनन्तरं प्रसंवेदकः दत्ताश्वासनस्य परिपूर्तये अग्लायत। लिपिकः एतां वार्तां अधिकारिणम् अज्ञापयत्।

*अधिकारी*-- इदानीं किं करणीयम्?

*लिपिकः*--(सस्मितम्) मान्य, केवलं APPROVED इत्यस्मात् पूर्वं NOT इति लिखतु। तावदेव।

*NOT   APPROVED*.

इदानीं चिन्ता प्रसंवेदकस्य उत्पन्ना।

तेन लिपिकेन सह समञ्जनं कृत्वा यथाकथमपि लिपिकः अनुनीतः।

लिपिकः पुनः सञ्चिकां धृत्वा अधिकारिणः पुरः उपस्थितः।

*अधिकारी*--(सोद्वेगम्) अधुना किं करवाणि?

*लिपिकः*-- (मन्दहासं कृत्वा) मान्य, केवलं NOT इत्यस्य अग्रे E लिखतु।

*NOTE: APPROVED*

*अधिकारी*--(शिरः कण्डूयन्) च्यायला, अहं कथम् अस्य अधिकारी अभवं भोः?

😜🤣🤣

No comments:

Post a Comment