Tuesday, August 13, 2019

Ant & corporate business today-managenent story in Sanskrit


अरण्ये व्याघ्रराजस्य यन्त्रागारम् आसीत्।🐅

एका पिपीलिका तत्र सामान्यसेवकरूपेण कार्यं करोति स्म। सा समये एव कार्यार्थम् आगच्छति स्म तथा च आदिनं कार्यं कृत्वा निर्धारितसमये निर्गच्छति स्म।🐜

व्याघ्रराजस्य व्यवसायः उत्तमरीत्या प्रचलन्नासीत्।

तेन चिन्तितम् --'एषा पिपीलिका पर्यवेक्षकराहित्ये सत्यपि एतावत् समीचीनं कार्यं करोति तर्हि तस्याः कार्यस्य अवेक्षणाय अन्यजनः नियुक्तश्चेत् कियत् सुष्ठुतरतया कार्यं कुर्यात्?

एतदुद्देशेन व्याघ्रेण एका मधुमक्षिका उत्पादनव्यवस्थापकरूपेण (production manager) नियुक्ता।🐝

मधुमक्षिका बहु कार्यानुभवयुक्ता प्रतिवेदनलेखनेपि (report writing) अत्यन्तं निपुणा।

सा व्याघ्रम् अवदत् ," एतस्याः पिपीलिकायाः गमनागमनसमयः तथा च कार्यावधिः निश्चितः भवेत्। कार्यवेगं वर्धयितुं अभिलेखान् च रक्षितुं एकः स्वीयसचिवः ( personal secretary)अपि आवश्यकः।

व्याघ्रेण तस्याः स्वीयसचिवरूपेण शशकस्य नियुक्तिः कृता।🐰

इदानीं व्याघ्रः पिपीलिकायाः कार्यस्य प्रतिवेदनानि तथा च उत्पादनालेखः ( production chart) अभियाचितुं प्रारब्धवान्।

तदर्थं मधुमक्षिकया सङ्गणकः, चित्रप्रक्षेपकः(projector) तीव्रकिरणमुद्रकः (laser printer) च प्रार्थिताः।🖥🖨

अधुना तदर्थं स्वतन्त्रसङ्गणककक्षः निर्मितः जातः। तस्य व्यस्थापनार्थम् एकस्य सङ्गणककक्षप्रमुखस्य मार्जारस्य नियुक्तिरपि जाता।🐱

व्यतीते काले प्रतिवेदनसज्जीकरणेन तथा च अनावश्यकनियमानां बन्धनेन त्रस्ता पिपीलिका कार्याय अग्लायत।तेन उत्पादनहानिः प्रादुरभवत्।

व्याघ्रः चिन्तितवान् , " यदि एकः तन्त्रज्ञः मधुमक्षिकापिपीलिकयोः मध्ये स्थित्वा मधुमक्षिकायाः विचारान् पिपीलिकायै सम्यग्रीत्या कथयेत् तर्हि उत्तमम्।तदा सः एकं मर्कटं तन्त्रशासकरूपेण (technical instructor) नियुक्तवान्। 🐒

प्रतिदिनं यदृच्छया अधिककार्यं कुर्वाणा पिपीलिका एतावत् परीक्षण-प्रतिवेदनादिकम् असहमाना कोपाविष्टा भूत्वा कार्याय अधिकमेव अनुत्सुका अभवत्। तेन अधिकमेव उत्पादनहानिः संवृत्ता।

हानेः कारणान्यन्वेष्टुं व्याघ्रः एकं उलूकम् नियुङ्क्ते। 🦉

मासत्रयं यावत् निरीक्षणचिन्तनानन्तरं उलूकेन एकं प्रतिवेदनं सज्जीकृत्य प्रेषितम् ---'भवतः समीपे कर्मकरवर्गः सङ्ख्यया अधिकः। तस्य सङ्ख्या न्यूनीकर्तव्या।'

कथयतु अधुना--- कार्यात् कस्य निष्कासनं भवेत्?


अर्थात् पिपीलिकायाः!!🐜🙊

एषा एव व्यथा अधुना सर्वेषु कार्यक्षेत्रेषु।🙈🙁☹😣😩
*उत्पादनाभिलेखं

No comments:

Post a Comment