Tuesday, July 2, 2019

What is the date today? - Sanskrit joke

एकदा 
अहं यदा मम कार्यालयं गतवान् आसम् तदा किञ्चित् कालात् परं गृहात् मम पत्नी मां दूरवाणीं कृत्वा अपृच्छत्...

अद्य को दिनाङ्कः इति!

तदा अहं भीत्या उत्तरं दत्तवान्
अद्य तु बैशाखमासस्य तृतीय दिनाङ्कः एव! किमर्थं पृष्टवती इति अहं पुनः पृष्टवान्! 

तदा सा किमपि उत्तरं न कथितवती दूरवाणीं च विच्छेदं कृतवती!

तदा अहं भीतः सन् चिन्तितवान्-
अद्य किमस्ति गृहे??
तस्याः जन्मदिनम्?
मम जन्मदिनम्?
पुत्रस्य जन्मदिनम्? 
न! किमपि नास्ति! 

तर्हि किमर्थं पृष्टवती?

तद्दिने तु अहं प्रतिक्षणं चिन्तायाम् एव आसम्! 

अस्तु..
परन्तु यदा अहं सायंकाले गृहं प्रति आगतवान् तदा मया दृष्टं मम पुत्रः उपवने क्रीडन् आसीत्! 
अहं तं पृष्टवान्! हे पुत्र ! अद्य गृहस्य वातावरणं कथं वा सम्यक् वा न वा, किमपि विवादं अभवत् वा इति! 

पुत्रः अवदत्- सर्वं कुशलम् एव, परन्तु भवान् किमर्थं पृच्छति इति! 

तदा अहं उक्तवान्- प्रातःकाले तव माता मां दूरवाणीं कृत्वा अद्य को दिनाङ्कः इति अपृच्छत्! 

पुत्रः तदा मृदु हसित्वा - तात! अद्य प्रातःकाले अहं दिनदर्शिकात् त्रिणि- चत्वारि कागदपत्राणि छिन्नवान् आसम्! तदर्थं माता व्याकुला अभवत् इति मन्ये! अतः सा अपृच्छत्!

सर्वे जानन्तु...
एकस्य विवाहितपुरुषस्य जीवने का दशा भवति इति! 
इमां एव भार्या इति कथ्यते! 🤔😂
*-प्रदीपः*

No comments:

Post a Comment