Friday, July 5, 2019

Upasarga - things to know - Sanskrit

उपसर्गः इति ज्ञातव्यो विषयः --

१. उपसर्गाः क्रियायोगे-- प्र, परा, अप, सम्, अनु, अव, निस्, दुस्, वि, अधि, सु, उत्, अति, नि, प्रति,  परि, अपि, उप, आ इत्येते उपसर्गाः क्रियया सह युक्ताः भवन्ति।
२. उपसर्गः धात्वर्थं परिवर्तयति-- यथा हृ- धात्वर्थः हरणमिति। किन्तु प्रहारः, आहारः, विहारः परिहारः इत्येतेषाम् अर्थः भिन्नो भिन्नोsस्ति।
३. (क) केचन उपसर्गाः धातोः प्रधानार्थं बाधन्ते, यथा--  गच्छति--आगच्छति।
     (ख) केचन धातोः मूलार्थम् अनुसरन्ति-- वसति--अधिवसति।
      (ग) केचन विशेषरूपेण धात्वर्थस्य पोषणं कुर्वन्ति-- नमति-- प्रणमति।
४. धातोः पुरतः उपसर्गः तिष्ठति, तदा सन्धिः भवति। णत्व-षत्वनियमाः अपि अनुस्रियन्ते। यथा-- प्रणमति (प्र+ नम् + लट् ति, णत्वम्), निषेवते ( नि+ सेव् + लट् ते, षत्वम्), प्राविशत् ( प्र+ अविशत्, सन्धिः)।
५. कदाचित् अकर्मक-धातुः सकर्मकः, तथैव सकर्मकश्च अकर्मको भवति। यथा, हसति--उपहसति (सक.), गच्छति-- सङ्गच्छते (अक.) इति।     (सङ्कलनम्) -- नारदः।

No comments:

Post a Comment