Monday, July 1, 2019

Shadow of a tree-Sanskrit subhashitam

सुभाषितम्!!
सेवितव्यो महावृक्षः फलच्छायासमन्वितः! 
यदि दैवात् फलं नास्ति छाया केन निवार्यते!!

श्लोकस्य अर्थः एवमस्ति...
यदि वृक्षः सेवितव्यः अस्ति तर्हि सामान्यवृक्षः न सेवितव्यः, अपितु फलच्छायासमन्वितः महावृक्षः एव सेवितव्यः! 
तादृशस्य वृक्षस्य अधः एव गत्वा अस्माभिः स्थातव्यम्! 
किमर्थम् इत्युक्ते अकस्मात् दैवात् यदि फलं न लब्धं तर्हि छाया केन निवार्यते! छायारुप आश्रयः तु लभ्यते एव! 
एवमेव महापुरुषस्य आश्रयं यदि वयं प्राप्नुमः तर्हि किञ्चित् वा आश्रयः लभ्यते एव, किञ्चित् वा फलमपि अस्माभिः प्राप्यते एव इति! अस्तु!
हरिः ॐ तत्सत्!- प्रदीपः!!

No comments:

Post a Comment