Wednesday, July 3, 2019

Rearing of child-Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
🍼गुरुवासरः चैत्रशुक्लषष्ठी (11-04-19)🍇
✍प्रस्तावविषयः-- शिशुपालनम्👶🏻

"लालयेत् पञ्चवर्षाणि दशवर्षाणि च ताडयेत्।
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत्।।" इति आर्योक्तिः।

   शिशुपालनमपि एका कला भवति। यतो हि तेषां मनः अत्यन्तं सौकुमार्यं भवति। तेषां मनः अनुसृत्य हितकरं करणीयं वचनीयञ्च। पञ्चवर्षपर्यन्तमपि ते सर्वे कथं व्यवहरन्तीति परिशीलयन्ति।अपि च अधिकपरिशीलनं पित्रावेव।अतः मातापितरः अत्यन्तानवधानतया व्यवहरतव्यम्। बाल्ये एव संस्कारबीजानि तेषु आरोपयामश्चेत् ते यदा कदाऽपि वातावरणप्रभावात् सङ्गदोषाच्च गुणत्यक्ता भवन्ति चेदपि कालान्तरे बीजप्रभावेण ते पुनः गुणयुताः भवन्ति।

   पञ्चवर्षात्प्रभृति विद्याध्यनसमये यथावश्यकं किञ्चित् ताडनमपि करणीयम्। अधिकशिक्षणेन ते पित्रून् अथवा गुरून् द्विषन्ति। अधिकस्नेहेन ते उसद्व्यवहारं कुर्वन्ति। अतः स्नेहपूरितशिक्षणमावश्यकम्। 

"माता शत्रुः पिता वैरी येन बालो न पाठित:।
न शोभते सभामध्‍ये हंसमध्‍ये बको यथा ।।"

  शिशुपालनविषये पित्रादपि अधिकं वर्तते मातुरुत्तरदायित्वम्। यतो हि माता प्रथमगुरुर्भवति। तया वाच्यमानेन मृदुवचनेन शिशुः बद्धो भवति। बहूनि वृत्तान्तानि वयं पश्यामश्चेत् मातृशिक्षणेन उत्तमवर्तनं प्राप्तवन्तः सत्पुरुषाः अभवन्। 

   मदालसा स्वपुत्रेभ्यः शोशवे एव वेदान्तमुपदिश्य तान् मोक्षमार्गाय प्रचोदयामास। स्वपतेरनुज्ञया रुचये राजधर्मानुपदिश्य तस्मिन् संस्कारबीजान् बाल्ये एव आरोपितववती। अनन्तरकाले तया प्रभावेण सः मन्वनतराधिपपदवीं अधिष्ठितवान्। 

     शुक्राचार्यः स्वपुत्रीं देवयानिं अन्धप्रेम्णा अपालयत्। तदर्थमेव गुरुपुत्रस्य कचस्य क्लेशः, शर्मिष्ठाययातयोः प्राप्तः कष्टकालः, देवयान्याः अविनयपुत्रेषु तुर्वस्वादिषु शुक्रशापप्रभावात् राज्यपतनञ्च अभवत्।

    यदि गान्धार्या नयनपिथानार्थं पट्टिका न धारितं तर्हि धार्तराष्ट्राः कुत्सितमनाः नाभूवन्निति चिन्तयामि। यतो हि स्वयं सा स्वसुतानां दुश्चर्याः द्रष्टुं शक्नोति किल!
     
     --बाला...🙏🌷✍️

No comments:

Post a Comment