Friday, July 26, 2019

Rama - Sanskrit essay

।।श्रीमते रामानुजाय नमः।।

रामो विग्रहवान् धर्मः
-------------------------

'रमु' क्रीडायाम् इत्यस्माद्धातोः ' घञ् ' प्रत्यये कृते रामशब्द: उत्पन्नः, रमयतीति रामः इति तस्यार्थ: । वाल्मीकि: रामं वर्णयन्सर्वसत्वमनोहर: राम: इत्युक्तवान् । अयमाबाल्यात् अवतारपरिसमाप्तिपर्यन्तं पितरं, मातृ: , सोदरान् , पत्नीम् , राजकुलं, सर्वाः प्रजाः . प्रकृती:, योगिनश्च रञ्जयतीति तस्य रामाख्यं नामान्वर्थमभवत् । रामः न केवलं रूपेण किञ्च गुणैश्चापि सुन्दरः आह्लादकारकश्च। "पुंसां मोहनरूपाय रामचन्द्राय ते नम" इति रामस्य सौन्दर्यमभिवर्णितं कविभिः।

धर्मपरायणस्य रामस्य विजयेन धर्मविमुखस्य रावणस्यपराजयेन अस्मिन्धर्मस्य पारम्यं प्रतिपादितमस्ति । वेदवेद्य: पुरुषोत्तम: श्रीरामो भूत्वा
यावदवतार तदनुपदमेव वेदोऽपि वाल्मीकिमहर्षे: वदनारविन्दाद्रामायणस्वरूपमादाय प्रादुर्बभूव इति सांप्रदायिकानां कथनम् । तथाहि: –  

वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।
वेद: प्राचेतसादासीत्साक्षाद्रामायणात्मना।।इत्युक्तम् । इदं रामायणं मानवजीवनस्य व्याख्यानमस्ति । तत् सांसारिक व्यवहारोपदेशकाचार्यो भवति ।

रामस्य गुणाः न केवलं मित्राणाम् , आश्रितानां च किन्तु शत्रूणामपि हृदयाह्लादकारका इति मारीचरावणकुम्भकर्णादिपात्राणां मुखादवगम्यते ।

"न रामः कर्कशस्तावन्नाsविद्वान् नाsजितेन्द्रियः ।
अनृतं दुःश्रुतं चैव नैव त्वं  वक्तुमर्हसि ।।"

"रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः।
राजा सर्वस्य लोकस्य देवानामिव वासवः।।"
इति मारीचवचनं उदाहरणार्हतां भजते ।

अपि च –

"रमन्ते योगिनो यस्मिन् चिदानन्दे परात्मनि।" इति रामपदेनाsसौ परब्रह्माsभिधीयते।  इति वचनात् रामः योगिनामपि आत्मानन्दसन्धायक इति ज्ञायते ।  आधुनिकयुगेsपि त्यागराजादयो महानुभावाः रामाख्यं परं ब्रह्म शब्दब्रह्मणि साक्षाद्दर्शयन्तः मुक्तिं प्राप्नुवन् । अत्र अयमपरो विशेषः । तथा हि – "रा" शब्दस्य विश्वमर्थ: , "म" शब्दस्य ईश्वरोsर्थ: तथा च विश्वाधीन: ईश्वर: इत्यर्थ: सिद्ध्यति ।

"रा शब्दो विश्ववचनः मश्चापीश्वरवाचकः।
विश्वाधीनेश्वरो यो हि तेन रामः प्रकीर्तितः।। " इत्युक्तम् ।

रामशब्दःरावण मरणहेतुः राक्षस मरणहेतुश्च भवति । कारणजन्मा अयं श्रीरामः धर्मस्थापनार्थं रावणं तदितरांश्च राक्षसान्निहत्य अन्वर्थनामधेयको भवतीति वक्तुं शक्यते।

मर्यादापुरुषोत्तम भगवान् श्रीराम साक्षात् विग्रहवान् धर्म हैं ।  वैदिक धर्म की रक्षा के लिये ही भगवान् श्रीरामका अवतार हुआ। क्योंकि वैदिक धर्म की रक्षा ही मर्यादा की रक्षा है और मर्यादा-रक्षण  तथा मर्यादा-पालन जिनमें है, वे राघवेन्द्र ही साक्षात् विग्रहवान् धर्म हैं ।
 
मारीच रावण को समझाते हुए राघव के गुणों का वर्णन और रावण को सन्मार्ग दिखाने के संदर्भ में कहता है –

रामो विग्रहवान् धर्मः साधुः सत्य पराक्रमः।
राजा सर्वस्य लोकस्य देवानाम् इव वासवः।।

         –वा0रा0, 3/37/13

अर्थात् श्रीराम साक्षात् विग्रहवान् धर्म हैं । वे साधु और सत्यपराक्रमी हैं । जैसे इन्द्र समस्त देवताओंके अधिपति हैं, उसी प्रकार श्रीराम समस्त जगत् के राजा हैं । इसप्रकार विग्रहवान् धर्म के समग्र लक्षण श्रीराम में चरितार्थ हैं ।

"Raama is the embodiment of Dharma. He is a perfect sadhu who does hitam to every creature. His strength/effort/valour never go in vein. Like how Indra is the king of the Gods, Raama is the King of this entire creation.".

यं पालयसि धर्मं त्वं धृत्या च नियमेन च।
स वै राघवशार्दूल! धर्मस्त्वामभिरक्षतु ।।

     –वा0रा0 ,2/25/3

O Rama! the duty which you are observing with courage and self-discipline, that alone will protect you.

        –रमेशप्रसाद शुक्ल

        –जय श्रीमन्नारायण।

No comments:

Post a Comment