Tuesday, July 2, 2019

Purascharana Vidhi as per Shabdakalpdruma

Purascharana Vidhi as per Shabdakalpdruma
(पुरोऽग्रतश्चरणं मन्त्रजपादिपञ्चाङ्गकर्म्माचरणमिति । )  पुरस्क्रिया ।  सा तु स्वेष्टदेवतामन्त्रसिद्ध्यर्थं तद्देवतापूजापूर्ब्बकं तन्मन्त्रजपहोमतर्पणाभिषेकब्राह्मणभोजनरूपपञ्चाङ्गकसाधना ।  यथा    योगिनीहृदये । " गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः । ततः पुरस्क्रियां कुर्य्यान्मन्त्रसंसिद्धिकाम्यया ॥ जीवहीनो यथा देही सर्व्वकर्म्मसु न क्षमः । पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्त्तितः ॥ तस्मादादौ स्वयं कुर्य्यात् गुरुं वा कारयेद्बुधः । गुरोरभावे विप्रं वा सर्व्वप्राणिहिते रतम् । स्निग्धं शास्त्रविदं मित्रं नानागुणसमन्वितम् ॥ स्त्रियं वा सद्गुणोपेतां सपुत्त्रां विनियोजयेत् ॥ आदौ पुरस्क्रियां कर्त्तुं स्थाननिर्णय उच्यते ॥ "  योगिनीहृदये । " पुण्यक्षेत्रं नदीतीरं गुहापर्व्वतमस्तकम् । तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् ॥ उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ॥ तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् ॥ अश्वत्थामलकीमूलं गोशालाजलमध्यतः । देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥ साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् । अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ॥ "   * ॥ तथा । " गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत् । कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ॥ म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्ज्जिते । एकान्तपावने निन्दारहिते भक्तिसंयुते ॥ सुदेशे धार्म्मिके देशे सुभिक्षे निरुपद्रवे । रम्ये भक्तजनस्थाने निवसेत् तापसः प्रिये ! ॥ गुरूणां सन्निधाने च चित्तैकाग्रस्थले तथा । एषामन्यतमस्थानमाश्रित्य जपमाचरेत् ॥ यत्र ग्रामे जपेन्मन्त्री तत्र कूर्म्मं विचिन्तयेत् ॥ "  गौतमीये । " पर्व्वते सिन्धुतीरे वा पुण्यारण्ये नदीतटे । यदि कुर्य्यात् पुरश्चर्य्यां तत्र कूर्म्मं न चिन्तयेत् ॥ "  विल्वमूलादावपि कूर्म्मचिन्ता नास्ति तदुक्तं वैशम्पायनसंहितायाम् । " पुण्यक्षेत्रं गृही तीर्थं देवतायतनं शुभम् । नदीतीरं तथा सिन्धुसङ्गमोऽतिमनोहरः ॥ पर्व्वतस्य गुहाश्चैव तथा पर्व्वतमस्तकम् । विल्वमूलं समुद्रश्च वनमुद्यानमेव च ॥ एषु स्थानेषु विप्रेन्द्र ! कूर्म्मचक्रं न चिन्तयेत् । ग्रामे वा यदि वा वास्तौ गृहे तञ्च विचिन्तयेत् ॥ "  अथ पुरश्चरणे भक्ष्यादिनियमः । गौतमीये । " पुरश्चरणकृन्मन्त्री भक्ष्याभक्ष्यं विचारयेत् । अन्यथा भोजनाद्दोषात् सिद्धिहानिः प्रजायते ॥ शस्तान्नञ्च समश्नीयात् मन्त्रसिद्धिसमीहया । तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः ॥ "  अगस्त्यसंहितायाम् । " दधि क्षीरं घृतं गव्यं ऐक्षवं गुडवर्ज्जितम् । तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्ज्जितः ॥ नारिकेलफलञ्चैव कदली लवली तथा । आम्रमामलकञ्चैव पनसञ्च हरीतकी ॥ व्रतान्तरे प्रशस्तञ्च हविष्यं मन्यते बुधैः ॥ "  व्रतान्तर इति । " हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी । पिप्पली जीरकञ्चैव नागरङ्गञ्च तिन्तिडी ॥ कदलीलवलीधात्रीफलानिगुडमैक्षवम् । अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ॥ भुञ्जानो वा हविष्यान्नं शाकं यावकमेव वा । पयो मूलं फलं वापि यत्र यत्रोपलभ्यते ॥ रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् । फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्ज्जयेत् ॥ "  यत्तु योगिनीतन्त्रे । " चिञ्चाञ्च नालिकाशाकं कलायं लकुचं तथा । कदम्बं नारिकेलञ्च व्रते कुष्माण्डकं त्यजेत् ॥ "  तत्तु व्रतान्तरे बोध्यम् ।  चिञ्चा तिन्तिडी ॥  * ॥ अथ वर्ज्यानि । " विवर्ज्जयेन्मधु क्षारलवणं तैलमेव च । ताम्बूलं कांस्यपात्रञ्च दिवाभोजनमेव च ॥ "  तथा । " क्षारञ्च लवणं मांसं गृञ्जनं कांस्यभोजनम् । माषाढकीमसूरांश्च कोद्रवांश्चणकानपि ॥ अन्नं पर्य्युषितञ्चैव निःस्नेहं कीटदूषितम् ॥ "  रामार्च्चनचन्द्रिकायाम् । " मैथुनं तत्कथालापं तद्गोष्ठीः परिवर्ज्जयेत् । ऋतुकालं विना मन्त्री स्वस्त्रियं नैव गच्छति ॥ लवणञ्च पलञ्चैव क्षारं क्षौद्रं रसान्तरम् । कौटिल्यं क्षौरमभ्यङ्गमनिवेदितभोजनम् ॥ असङ्कल्पितकृत्यञ्च वर्ज्जयेन्मर्द्दनादिकम् । स्नायाच्च पञ्चगव्येन केवलामलकेन वा ॥ मन्त्रजप्तान्नपानीयैः स्नानाचमनभोजनम् । कुर्य्याद्यथोक्तविधिना त्रिसन्ध्यं देवतार्च्चनम् ॥ अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा । प्रलपन् प्रजपेद्यावत्तावत् निष्फलमुच्यते ॥ "  नारदीये । " मृदु सोष्णं सुपक्वञ्च कुर्य्याद्वै लघु भोजनम् । नेन्द्रियाणां यथा वृद्धिस्तथा भुञ्जीत साधकः ॥ "  कुलार्णवेऽपि । " यस्यान्नपानपुष्टाङ्गः कुरुते धर्म्मसञ्चयम् । अन्नदातुः फलस्यार्द्धं कर्त्तुश्चार्द्धं न संशयः ॥ तस्मात् सर्व्वप्रयत्नेन परान्नं वर्ज्जयेत् सुधीः । पुरश्चरणकालेषु सर्व्वकर्म्मसु शाम्भवि ! ॥ जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् । परस्त्रीभिर्म्मनो दग्धं कथं सिद्धिर्व्वरानने ! ॥ "  परान्नं भिक्षितेतरविषयम् ।  भिक्षायां तस्य स्वत्वोत्पादात् ।  तथा च । " वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम् । सत्कुलस्थानजातानां भिक्षाशी चाग्रजन्मनाम् ॥ विहाय वह्निं नहि वस्तु किञ्चित् ग्राह्यं परेभ्यः सति सम्भवे च । असम्भवे तीर्थबहिर्व्विशुद्धात् पर्व्वातिरिक्ते प्रतिगृह्य जप्यात् ॥ तत्रासमर्थोऽनुदिनं विशुद्धात् याचेत यावद्दिनमात्रभैक्ष्यम् । गृह्णाति रागादधिकं न सिद्धिः प्रजायते कल्पशतैरमुष्य ॥  * ॥ सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् । प्रोक्ते पारशवे शब्दे प्राणायामं सकृच्चरेत् ॥ बहुप्रलापी आचम्य न्यस्याङ्गानि ततो जपेत् । क्षुतेऽप्येवं तथास्पृश्यस्थानानां स्पर्शनेन च ॥ एवमादींञ्च नियमान् पुरश्चरणकृच्चरेत् ॥ विण्मूत्रोत्सर्गशङ्कादियुक्तः कर्म्म करोति यत् । जपार्च्चनादिकं सर्व्वमपवित्रं भवेत्प्रिये ! ॥ मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः । यो जपेत्तं दहत्याशु देवता गुप्तिसंस्थिता ॥ आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् । नीचाङ्गस्पर्शनं कोपं जपकाले विवर्ज्जयेत् ॥  * ॥ एवमुक्तविधानेन विलम्बं त्वरितं विना । उक्तसंख्यं जपं कुर्य्यात् पुरश्चरणसिद्धये ॥ देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया । जपेदेकमनाः प्रातःकालं मध्यन्दिनावधि ॥ यत्सङ्ख्यया समारब्धं तत् कर्त्तव्यं दिने दिने । यदि न्यूनाधिकं कुर्य्यात् व्रतभ्रष्टो भवेन्नरः ॥ "  मुण्डमालायाम् । " यत्सङ्ख्यया समारब्धं तत् जप्तव्यं दिने दिने । न्यूनाधिकं न कर्त्तव्यमासमाप्तं सदा जपेत् ॥ प्रजपेदुक्तसङ्ख्यायाश्चतुर्गुणजपं कलौ ॥ "  अन्यत्रापि । " कृते जपस्तु कल्पोक्तस्त्रेतायां द्बिगुणो मतः । द्वापरे त्रिगुणः प्रोक्तश्चतुर्गुणजपः कलौ ॥ "  कुलार्णवेऽपि । " न्यूनातिरिक्तकर्म्माणि न फलन्ति कदाचन । यथाविधिकृतान्येव सत्कर्म्माणि फलन्ति हि ॥ भूशय्या ब्रह्मचारित्वं मौनमाचार्य्यसेविता । नित्यपूजा नित्यदानं देवतास्तुतिकीर्त्तनम् ॥ नित्यं त्रिसवनं स्नानं क्षुद्रकर्म्मविवर्ज्जनम् । नैमित्तिकार्च्चनञ्चैव विश्वासो गुरुदेवयोः ॥ जपनिष्ठा द्वादशैते धर्म्माः स्युर्म्मन्त्रसिद्धिदाः ॥ स्त्रीशूद्रपतितव्रात्यनास्तिकोच्छिष्टभाषणम् । असत्यभाषणं जिह्मभाषणं परिवर्ज्जयेत् ॥ सत्येनापि न भाषेत जपहोमार्च्चनादिषु । अन्यथानुष्ठितं सर्व्वं भवत्येव निरर्थकम् ॥ पुरश्चरणकाले तु यदि स्यान्मृतसूतकम् । तथा च कृतसङ्कल्पो व्रतं नैव परित्यजेत् ॥ "  योगिनीहृदये । " शयीतकुशशय्यायां शुचिवस्त्रधरः सदा । प्रत्यहं क्षालयेत् शय्यामेकाकी निर्भयः स्वपेत् ॥ असत्यभाषणं वाचं कुटिलां परिवर्ज्जयेत् । वज्जेयेद्गीतवाद्यादिश्रवणं नृत्यदर्शनम् ॥ अभ्यङ्गं गन्धलेपञ्च पुष्पधारणमेव च । त्यजेदुष्णोदकस्नानमन्यदेवप्रपूजनम् ॥ "  तत्रैव । " नैकवासा जपेन्मन्त्रं बहुवासाकुलोऽपि वा ॥ "  वैशम्पायनसंहितायाम् । " विपर्य्यासं स कुर्य्याच्च कदाचिदपि मोहतः । उपर्य्यधो बहिर्व्वस्त्रे पुरश्चरणकृन्नरः ॥ पतितानामन्त्यजानां दर्शने भाषणे श्रुते । क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ तथा तस्य च तत्प्राप्तौ प्राणायामं षडङ्गकम् । कृत्वा सम्यक् जपेत् शेषं यद्वा सूर्य्यादिदर्शनम् ॥ "  आदिशब्दाद्बह्निं ब्राह्मणञ्च ॥  * ॥  तन्त्रान्तरे । " मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् । अव्यग्रत्वमनिर्व्वेदो जपसम्पत्तिहेतवः ॥  * ॥ उष्णीशी कञ्चुकी नग्नो मुक्तकेशो गणावृतः । अपवित्रकरोऽशुद्धः प्रलपन्न जपेत् क्वचित् ॥ अनासनः शयानो वा गच्छन् भुञ्जान एव वा । अप्रावृतौ करौ कृत्वा शिरसा प्रावृतोऽपि वा ॥ चिन्ताव्याकुलचित्तो वा क्षुब्धो भ्रान्तः क्षुधान्वितः । रथ्यायामशिवस्थाने न जपेत्तिमिरालये ॥ उपानद्गूढपादो वा यानशय्यागतोऽपि वा । प्रसार्य्य न जपेत् पादावुत्कटासन एव च । न यज्ञकाष्ठे पाषाणे न भूमौ नासने स्थितः ॥ "  तथा । " मार्ज्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रं कपिं खरम् । दृष्ट्वाचम्य जपेत् शेषं स्पृष्ट्वा स्नानं विधीयते ॥ "  सर्व्वत्र जपे त्वयं नियमः ॥  मानसे तु नियमो नांस्त्येव ।  तथा च । " अशुचिर्व्वा शुचिर्व्वापि गर्च्छस्तिष्ठन् स्वपन्नपि । मन्त्रैकशरणो विद्बान् मनसैव सदाभ्यसेत् ॥ न दोषो मानसे जाप्ये सर्व्वदेशेऽपि सर्व्वदा ॥ "  श्यामादिजपे तु तत्तन्मन्त्रे विशेषो वक्तव्यः ॥ जपफलमाह शिवधर्म्मे । " जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् । सर्व्वेषामेव यज्ञानां जायतेऽसौ महाफलः ॥ जपेन देवता नित्यं स्तूयमाना प्रसीदति । प्रसन्ना विपुलान् कामान् दद्यान्मुक्तिञ्च शाश्वतीम् ॥ "  पाद्मे । " यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च भीषणाः । जापिनं नोपसर्पन्ति भयभीताः समन्ततः ॥ "  पाद्मनारदीययोः । " यावन्तः कर्म्मयज्ञाः स्युः प्रदिष्टानि तपांसि च । सर्व्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ माहात्म्यं वाचिकस्यैतज्जपयज्ञस्य कीर्त्तितम् । तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः ॥ "  तथा तन्त्रे । " मानसः सिद्धिकामानां पुष्टिकामैरुपांशुकः । वाचिको मारणे चैव प्रशस्तो जप ईरितः ॥ "  गौतमीये । " शक्त्या त्रिसवनं स्नानमन्यथा द्विः सकृच्च वा । त्रिसन्ध्यं प्रजपेन्मन्त्रं पूजनं तत्समं भवेत् ॥ "  सन्ध्यात्रये पूजाङ्गत्वाज्जपमष्टोत्तरशतमित्यर्थः ॥ " एकदा वा भवेत् पूजा न जपेत् पूजनं विना । जपान्ते वा भवेत् पूजा पूजान्ते वा जपेन्मनुम् ॥ प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि ॥ "  मध्यन्दिनावधीति न नियमपरं किन्त्वधिककालव्यवच्छेदपरम् ।  अन्यथा तत्समयजपनियमे कदाचित् जिह्वाया जाड्याजाड्येन वा प्रतिनियतदिवसीयजपसङ्ख्याया अपूर्णत्वे अधिकत्वे वा नियमभङ्गः स्यात् ॥  * ॥ " मनः संहृत्य विषयान्मन्त्रार्थगतमानसः । न द्रुतं न विलम्बञ्च जपेन्मौक्तिकपंक्तिवत् ॥  * ॥ जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः । धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ॥ उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः ॥ "  मन्त्रनिर्णये । " मानसं मन्त्रवर्णस्य चिंन्तनं मानसः स्मृतः । जिह्वोष्ठौ चालयेत् किञ्चिद्देवतागतमानसः ॥ किञ्चित् श्रवणयोग्यः स्यात् उपांशुः स जपः स्मृतः । मन्त्रमुच्चारयेद्वाचा वाचिकः स जपः स्मृतः ॥ उच्चैर्ज्जपाद्विशिष्टः स्यादुपांशुर्द्दशभिर्गुणैः । जिह्वाजपः शतगुणः सहस्रो मानसः स्मृतः ॥ "  प्रकारान्तरम् । " निजकर्णागोचरो यो मानसः स जपः स्मृतः । उपांशुर्निजकर्णस्य गोचरः स प्रकीर्त्तितः ॥ निगदस्तु जनैर्वेद्यस्त्रिविधोऽयं जपः स्मृतः ॥ "  तन्त्रान्तरे । " उच्चैर्जपोऽधमः प्रोक्त उपांशुर्म्मध्यमः स्मृतः । उत्तमो मानसो देवि ! त्रिविधः कथितो जपः ॥ "  जिह्वाजपस्तु । " जिह्वाजपः स विज्ञेयः केवलं जिह्वया बुधैरिति ॥ अतिविलम्बातिशीघ्रजपे दोषमाह । " अतिह्नस्वो व्याधिहेतुरतिदीर्घो वसुक्षयः । अक्षराक्षरसंयुक्तं जपेन्मौक्तिकहारवत् ॥ मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् । उभयं निष्फलं याति भिन्नभाण्डोदकं यथा ॥ "  गौतमीये । " पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः । सौसुम्नध्वन्युच्चरिताः प्रभुत्वं प्राप्नुवन्ति ते ॥ "  पाद्मनारदीययोः । " मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् । तामेव परमव्योम्नि परमामृतबृंहिते ॥ दर्शयत्यात्मसद्भावं पूजाहोमादिभिर्व्विनेति । " गौतमीये दशाक्षरपटले । " मूलमन्त्रं प्राणबुद्ध्या सुसुम्नामूलदेशके । मन्त्रार्थं तस्य चैतन्यं जीवं ध्यात्वा पुनः पुनः ॥ कुलार्णवेऽपि । " मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः न सिद्ध्यति वरारोहे ! कल्पकोटिशतैरपि ॥ जातसूतकमादौ स्यादन्ते च मृतसूतकम् । सूतकद्वयसंयुक्तो यो मन्त्रः स न सिद्ध्यति ॥ गुरोस्तद्रहितं कृत्वा मन्त्रं यावज्जपेद्धिया । सूतकद्वयनिर्म्मुक्तः स मन्त्रः सर्व्वसिद्धिदः ॥ जातसूतकमादौ स्यान्मृतसूतकमन्ततः । सूतकद्वयनिर्म्मुक्तो मन्त्रः सिद्ध्यति नान्यथा ॥ "  तत्रैव । " तस्माद्देवि ! प्रयत्नेन ध्रुवेण पुटितं मनुम् । अष्टोत्तरशतं वापि सप्तवारं जपादितः ॥ जपान्ते च तथा जप्यात् चतुर्व्वर्गफलाप्तये ॥ "  तत्रैव । " ब्रह्मबीजं मनोर्द्दत्त्वा चाद्यन्ते परमेश्वरि ! । सप्तवारं जपेन्मन्त्रं सूतकद्वयमुक्तये ॥  * ॥ मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः । शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥ लुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये ! । मन्त्राश्चैतन्यसहिताः सर्व्वसिद्धिकराः स्मृताः ॥ चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् । फलं नैव प्रयच्छन्ति लक्षकोटिजपैरपि ॥ मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् । शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् ॥ हृदये ग्रन्थिभेदश्च सर्व्वावयववर्द्धनम् । आनन्दाश्रूणि पुलको देहावेशः कुलेश्वरि ! ॥ गद्गदोक्तिश्च सहसा जायते नात्र संशयः । सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसंयुते ॥ दृश्यन्ते प्रत्यया यत्र पारम्पर्य्यं तदुच्यते ॥  * ॥ मासमात्रं जपेन्मन्त्रं भूतलिप्या तु संपुटम् । क्रमोत्क्रमात् सहस्रञ्च तस्य सिद्धो भवेन्मनुः ॥ "  तत्र भूतलिपिः । " पञ्च ह्नस्वाः सन्धिवर्णा व्योमाराग्निजलन्धराः । अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् ॥ पञ्चवर्गाक्षराणि स्युर्व्वान्तश्वेतेन्दुभिः सह । एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः ॥ मन्त्रस्तु । अ इ उ ऋ ऌ ए ऐ ओ औ ह य र व ल ङ क ख घ ग ञ च छ झ ज ण ट ठ ढ ड न त थ ध द म प फ भ व श ष साः । अतः परं मन्त्रमुच्चार्य्य पुनः क्रमेणोल्लेख्यम् ॥  * ॥ गौतमीये । " एवं जपं पुरा कृत्वा तेजोरूपं समपयेत् । देवस्य दक्षिणे हस्ते कुशपुष्पार्घ्यवारिभिः ॥ सफलं तद्विभाव्यैवं प्राणायामं समाचरेत् । जपस्वादौ जपान्ते च त्रितयं त्रितयं चरेत् ॥ "   * ॥ शक्तिविषये देव्या वामहस्ते ।  तथा च । " एवं जपं पुरा कृत्वा गन्धाक्षतकुशोदकैः । जपं समर्पयेद्देव्या वामहस्ते विचक्षणः ॥  * ॥ जपान्ते प्रत्यहं मन्त्री होमयेत्तद्दशांशतः । तर्पणञ्चाभिषेषकञ्च तत्तद्दशांशतो मुने ! ॥ प्रत्यहं भोजयेद्विप्रान् न्यूनाधिकप्रशान्तये । अथवा सर्व्वपूर्त्तौ च होमादिकमथाचरेत् ॥ सम्पूर्णायां प्रतिज्ञायां तर्पणादिकमाचरेत् ॥ "  मुण्डमालायाम् । " यस्य यावान् जपः प्रोक्तस्तद्दशांशमनुक्रमात् । तत्तद्द्रव्यैर्जपस्यान्ते होमं कुर्य्याद्दिने दिने ॥ "  जपसङ्ख्यायां विशेषमाह मुण्डमालायाम् । नाक्षतैर्हस्तपर्व्वैर्वा न धान्यैर्न च पुष्पकैः । न चन्दनैर्म्मृत्तिकया जपसङ्ख्यान्तु कारयेत् ॥ लाक्षाकुशीदसिन्दूरं गोमयञ्च करीषकम् । विलोड्य गुटिकां कृत्वा जपसङ्ख्यान्तु कारयेत् ॥ "  पुरश्चरणचन्द्रिकायाञ्च । " ततो जपदशांशेन होमं कुर्य्याद्दिने दिने । अथवा लक्षसङ्ख्यायां पूर्णायां होममाचरेत् ॥ "  तथा ।  होमाद्यशक्तौ च सनत्कुमारीये । " यद्यदङ्गं भवेद्भग्नं तत्सङ्ख्याद्विगुणो जपः । होमाभावे जपः कार्य्यो होमसङ्ख्याचतुर्गुणः ॥ विप्राणां क्षत्त्रियाणाञ्च रससङ्ख्यागुणः स्मृतः । वैश्यानां वसुसङ्ख्याकमेषां स्त्रीणामयं विधिः ॥ यं वर्णमाश्रितः शूद्रः स च तस्य विधिञ्चरेत् । अनाश्रितस्य शूद्रस्य दिक्सङ्ख्याकः समीरितः । शूद्रस्य विप्रभृत्यस्य तत्पत्न्याः सदृशो जपः ॥ "  अत्राप्यशक्तश्चेत् योगिनीहृदये । " होमकर्म्मण्यशक्तानां विप्राणां द्विगुणो जपः । इतरेषान्तु वर्णानां त्रिगुणादिः समीरितः ॥ "  त्रिगुणादिः होमसङ्ख्यात्रिगुणजपः क्षत्त्रियेण कार्य्यः ।  वैश्येन चतुर्गुणः ।  शूद्रेण पञ्चगुणः । तदुक्तं कुलार्णवे । " यद्वदङ्गं विहीनं स्यात् तत्सङ्ख्याद्विगुणो जपः । कुर्व्वीत त्रिचतुःपञ्च यथासङ्ख्यं द्विजादयः ॥ "  एतेन स्त्रीशूद्राणां होमाधिकारः ।  तथा च । " बणिजामर्द्धशशाङ्ककोणं त्र्यस्रं भवति शूद्राणाम् । " इति नागभट्टनिबन्धे ॥ शूद्राणां त्र्यस्रमिति कुण्डप्रकरणे सारदायाम् ॥ स्त्रीणां होमाधिकारश्च तत्र । " लाजैस्त्रिमधुरोपेतैर्होमः कन्यां प्रयच्छति । अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् ॥ "  अतः स्त्रीणां होमाधिकारः ।  तच्च ब्राह्मणद्वारा ।  तथा च तन्त्रे । " ओङ्कारोच्चारणाद्धोमात् शालग्रामशिलार्च्चनात् । ब्राह्मणीगमनाच्चैव शूद्रश्चाण्डालतां व्रजेत् ॥ "  इति साक्षान्निषेधात् । तथा स्त्रीणामपि सर्व्ववैदिककर्म्मसु शूद्रतुल्यत्वप्रतिपादनात् । स्त्रीशूद्रकरसंस्पर्शो वज्रपातसमो मम ॥ इति भगवद्वचनाच्च ॥  तथा च नारायणकल्पे । " अष्टाक्षरो महामन्त्रः सप्तार्णः शूद्रयोषितोः । प्रणवादिश्च यो मन्त्रो न स्त्रीशूद्रे प्रशस्यते ॥ "  इति सर्व्वत्र स्त्रीणां शूद्रवद्व्यवहारः ॥  * ॥ शूद्रस्यापि स्वकर्त्तृकहोमः ।  तथा च वाराहीतन्त्रे । " यदि कामी भवत्येव शूद्रोऽपि होमकर्म्मणि । वह्निजायां परित्यज्य हृदयान्तेन होमयेत् ॥ "  सर्व्वेषां वा द्विगुणो जपः ।  तथा च वाशिष्ठे । " यद्यदङ्गं विहीयेत तत्सङ्ख्याद्विगुणो जपः । कर्त्तव्यश्चाङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः ॥ न चेदङ्गं विहीयेत तद्विशिष्टमताप्नुयात् । विप्रभोजनमात्रेण व्यङ्गं साङ्गं भवेत् ध्रुवम् ॥ यत्र भुङ्क्ते द्बिजस्तस्मात्तत्र भुङ्क्ते हरिः स्वयम् ॥ "  तथा अगस्त्यसंहितायाम् । " यदि होमेऽप्यशक्तः स्यात् पूजायां तर्पणेऽपि वा । तावत्सङ्ख्यजपेनैव ब्राह्मणाराधनेन च ॥ भवेदङ्गद्वयेनैव पुरश्चरणमार्य्य वै ॥ "   * ॥ वीरतन्त्रे । " नियमः पुरुषे ज्ञेयो न योषित्सु कथञ्चन । न म्यासो योषितामत्र न ध्यानं न च पूजनम् ॥ केवलं जपमात्रेण मन्त्राः सिद्ध्यन्ति योषिताम् ॥ "  ततश्च । " गुरवे दक्षिणां दद्यात् भोजनाच्छादनादिभिः । गुरुसन्तोषमात्रेण मन्त्रसिद्धिर्भवेत् ध्रुवम् ॥ "   * ॥ तथा च योगिनीहृदये । " गुरोरभावे पुत्त्राय तत्पत्न्यै वा निवेदयेत् । तयोरभावे देवेशि ! ब्राह्मणेभ्यो निवेदयेत् ॥ सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च । सर्व्वेमन्त्राश्च सिद्ध्यन्ति त्वत्प्रासादात् कुलेश्वरि ! ॥ गुरुमूलमिदं सर्व्वमित्याहुस्तन्त्रवेदिनः । एकग्रामे स्थितो नित्यं गत्वा वन्देत वै गुरुम् ॥ गुरुरेव परं ब्रह्म तस्मादादौ तमर्च्चयेत् । तदन्ते महतीं पूजां कुर्य्यात् साधकसत्तमः ॥ सुभाषिणीं कुमारीञ्च भूषणैरपि भूषयेत् । मिष्टान्नं बहुशः कार्य्यं भुञ्जीत बन्धुभिः सह ॥ एवं सिद्धमनुर्म्मन्त्री साधयेत् सकलेप्सितान् ॥ "   * ॥ अथ ग्रहणपुरश्चरणम् । तन्त्रे । " अथवान्यप्रकारेण पुरश्चरणमुच्यते । ग्रहणेऽर्कस्य चेन्दोर्व्वा शुचिः पूर्ब्बमुपोषितः ॥ नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः । स्पर्शाद्विमुक्तिपर्य्यन्तं जपेन्मन्त्रमनन्यधीः ॥ "   * ॥  यदि नक्रादिदूषिता नदी भवति तदा यत् कर्त्तव्यं तदाह रुद्रयामले । " अपि शुद्धोदकैः स्नात्वा शुचौ देशे समाहितः । ग्रासाद्विमुक्तिपर्य्यन्तं जपेन्मन्त्रमनन्यधीः ॥ इति कृत्वा न सन्देहो जपस्य फलभाग्भवेत् ॥ "  नद्यभावे । " यद्वा पुण्योदकैः स्नात्वा शुचिः पूर्ब्बमुपोषितः । ग्रहणादिविमोक्षान्तं जपेन्मन्त्रमनन्यधीः ॥ "   * ॥ उपवासासमर्थे तु तत्रैव । अथवान्यप्रकारेण पौरश्चारणिको विधिः । चन्द्रसूर्य्योपरागे च स्नात्वा प्रयतमानसः ॥ स्पर्शनादिविमोक्षान्तं जपेन्मन्त्रं समाहितः । जपाद्दशांशतो होमं तथा होमात्तु तर्पणम् । एवं कृत्वा तु मन्त्रस्य जायते सिद्धिरुत्तमा ॥ "   * ॥ गोपालमन्त्रतर्पणे तु होमसमसङ्ख्यत्वं यथा    -" इह गोपालमन्त्रस्य तर्पणं होमसङ्ख्यया । वर्णानामिह सर्व्वेषामित्यागमविदो विदुः ॥ दृष्ट्वा स्नात्वा सुसङ्कल्प्य विमोक्षान्तं जपञ्चरेत् । तावद्यज्ञादिकं कुर्य्याद्ग्रहणान्तेशुचिः पुमान् ॥ एवं जपान्मन्त्रसिद्धिर्भवत्येव न संशयः ॥ "   * ॥ ग्रहणे जपस्य आवश्यकत्वम् । " श्राद्धादेरनुरोधेन यदि जप्यं त्यजेन्नरः । स भवेद्देवताद्रोही पितॄन् सप्त नयत्यधः ॥ "  इति सनत्कुमारीयवचनात् ॥ वस्तुतस्तु आरब्धपुरश्चरणविषयमिदम् । तथाहि । " आरब्धे पुरश्चरणे यदि च ग्रहणं भवेत् तदा श्राद्धाद्यनुरोधेन जपं न त्यजेत् ।  एवं रात्रावपि पुरश्चरणविशेषे बोद्धव्यम् । "  इति सर्व्वसमञ्जसम् ॥  * ॥  योगिनीहृदये । " कल्पोक्तविधिना मन्त्री कुर्य्याद्धोमादिकन्ततः । अथवा तद्दशांशेन होमादींश्च समाचरेत् ॥ "  तथा । " अनन्तरं दशांशेन क्रमाद्धोमादिकञ्चरेत् । तदन्ते महतीं पूजां कुर्य्याद्ब्राह्मणभोजनम् ॥ ततो मन्त्रस्य सिद्ध्यर्थं गुरुं सम्पूज्य तोषयेत् । एवञ्च मन्त्रसिद्धिः स्यात् देवता च प्रसीदति ॥ "  अत्र ब्राह्मणभोजनमावश्यकमेव । " सर्व्वथा भोजयेद्बिप्रान् कृतसाङ्गत्वसिद्धये । विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम् ॥ "  क्रियासारे । " दीक्षाहीनान् पशून् यस्तु भोजयेद्वा स्वमन्दिरे । स याति परमेशानि ! नरकानेकविंशतिम् ॥ एवं यः कुरुते देवि ! पुरश्चरणकं प्रिये ! । सर्व्वपापविनिर्म्मुक्तो देवीसायुज्यमाप्नुयात् ॥ "  यद्यपि पुरश्चरणपदं पञ्चाङ्गपरम् ।  तथा च । " जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम् । पञ्चाङ्गोपासनं लोके पुरश्चरणमुच्यते ॥ "  तथापि ग्रहणादौ पुरश्चरणपदं गौणं जपमात्रपरम् । " सूर्य्योदयं समारभ्य यावत् सूर्य्योदयान्तरम् ॥ "  इत्यादौ तथादर्शनात् तत्र होमादेरभावात् । तर्हि कथं ग्रहणपुरश्चरणे होमादि इति चेत् वचनादेव ।  न च पुरश्चरणस्य पञ्चाङ्गत्वात् सर्व्वत्र तदेव स्यादिति वाच्यम् ।  ग्रहणे पुनस्तद्विधानमनर्थकं स्यात् ।  किञ्च ग्रहणे होमादिनियमात् नान्यत्र होमादिः ।  ग्रहणपुरश्चरणे होमादिविधानन्तु प्रकृतीभूतपञ्चाङ्गपुरश्चरणतुल्यताबोधनाय ।  अतएव ग्रहणे पञ्चाङ्गस्वरूपपुरश्चरणे कृते मुख्यप्रयोगेऽप्यधिकार इति प्रकटीकृतम् ।  तदकरणे पुनः केवलजपमात्रपुरश्चरणे कृते नाधिकार इति सर्व्वसग्मतमिति । पुरश्चरणकालस्तु वाराहीये । " चन्द्रतारानुकूले च शुक्ले पक्षे शुभेऽहनि । आरभेत पुरश्चर्य्यां हरौ सुप्ते न चाचरेत् ॥ "  प्रतिप्रसवः ।  रुद्रयामले । " कार्त्तिकाश्विनवैशाखमाधेऽथ मार्गशीर्षके । फाल्गुने श्रावणे दीक्षा पुरश्चर्य्या प्रशस्यते ॥ "  ग्रस्तास्ते ग्रस्तोदये च दीक्षापुरश्चरणयोर्निषेधमाह तन्त्रान्तरे । " ग्रस्तास्ते ह्युदिते नैव कुर्य्याद्दीक्षां जपं प्रिये ! । कृते नाशो भवेदाशु आयुःश्रीसुतसम्पदाम् ॥ "  अथ पुरश्च रणप्रयोगः । तत्र तावत् भूमेः परिग्रहं कृत्वा पुरश्चरणप्राक् तृतीयदिवसे क्षौरादिकं विधाय वेदिकायाश्चतुर्द्दिक्षु क्रोशं क्रोशद्वयं वा क्षेत्रं चतुरस्रम् आहारादिविहारार्थं परिकल्प्य तत्र कूर्म्मचक्रानुरूपं मण्डलं विधाय एकभक्तं कुर्य्यात् । ततः परदिने स्नानादिकं विधाय शुद्धः सन् वेदिकायाश्चतुर्द्दिक्षु अश्वत्थोडुम्बरप्लक्षाणामन्यतमस्य वितस्तिमात्रान् दश कीलकान्    ॐनमः सुदर्शनाय अस्त्राय फडितिमन्त्रेणाष्टोत्तरशताभिमन्त्रितान् वेदिकाया दशदिक्षु ॐ ये चात्र विघ्नकर्त्तारो भुवि दिव्यन्तरीक्षगाः । विघ्नभूताश्च ये चान्ये मम मन्त्रस्य सिद्धिषु ॥ मयैतत् कीलितं क्षेत्रं परित्यज्य विदूरतः । अपसर्पन्तु ते सर्व्वे निर्व्विघ्नं सिद्धिरस्तु मे ॥ इत्यनेन निखन्य तेषु ॐ नमः सुदर्शनाय अस्त्राय फडितिमन्त्रेणास्त्रं संपूज्य पूर्ब्बादिक्रमेण इन्द्रादिलोकपालान् पूजयेत् ।  तद्यथा । ॐ भूर्भुवःस्वरिन्द्रलोकपाल इहागच्छ इत्या-वाह्य पञ्चोपचारैरन्यांश्च पूजयेत् ।  तथा च मुण्डमालायाम् । " पुण्यक्षेत्रादिकं गत्वा कुर्य्याद्भूमेः परिग्रहम् । तथा ह्यमुकमन्त्रस्य पुरश्चरणसिद्धये । मयेयं गृह्यते भूमिर्म्मन्त्रोऽयं सिध्यतामिति ॥ "  तथा । " ग्रामे क्रोशमितं स्थानं नद्यादौ स्वेच्छया मतम् । नगरादावपि क्रोशं क्रोशयुग्ममथापि वा ॥ क्षेत्रं वा यावदिष्टन्तु विहारार्थं प्रकल्पयेत् । आहारादिविहारार्थं तावतीं भूमिमाक्रमेत् ॥ क्षीरिवृक्षोद्भवान् कीलान् अस्त्रमन्त्राभिमन्त्रितान् । निखनेद्दशदिग्भागे तेष्वस्त्रञ्च प्रपूजयेत् ॥ लोकपालान् पुनस्तेषु गन्धाद्यैः पूजयेत् सुधीः । ततो मध्यस्थाने क्षेत्रपालं वास्त्वीशञ्च संपूज्य सर्व्वविघ्नविनाशार्थं गणपतिं पूजयेत् ।  ॐ अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा मत्-कर्त्तव्यामुकमन्त्रपुरश्चरणकर्म्मणि सर्व्वविघ्नविना-शार्थं गणेशपूजामहं करिष्ये ।  इति सङ्कल्प्य वेदिकामध्ये पञ्चोपचारैर्गणेशं पूजयेत् ।  तदुक्तम् । " क्षेत्रपालादिकं तत्र पूजयेत् विधिवत्ततः । क्षेत्रेशं वास्तुनामानं विघ्नराजं समर्च्चयेत् ॥ दिक्पालेभ्यो वलिं दद्यात् ततः क्षेत्रं समाविशेत् ॥ "  ततो माषभक्तादिना पूजितदेवताभ्यो वलिं दद्यात् ।  ततः । " ॐ ये रौद्रा रौद्रकर्म्माणो रौद्रस्थाननिवासिनः । मातरोऽप्युग्ररूपाश्च गणाधिपतयश्च ये ॥ विघ्नभूताश्च ये चान्ये दिग्विदिक्षु समाश्रिताः । सर्व्वे ते प्रीतमनसः प्रतिगृह्णन्त्विमं वलिम् ॥ "  इत्यनेन दशदिक्षु भूतेभ्यो वलिं दद्यात् ।  ततो गायत्त्रीं जपेत् ।  तथा च । " प्रातः स्नात्वा तु गायत्त्र्याः सहस्रं प्रयतो जपेत् । ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं ततः ॥ "  इति विद्याधराचार्य्यः ॥  * ॥ यत्तु प्रातः स्नात्वा तु गायत्त्र्या अयुतं प्रयतो जपेत् इति ।  तत् पुनरत्यन्तपापशङ्कया ।  ॐ अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा ज्ञाताज्ञातपापक्षयकामोऽष्टोत्तरसहस्रगायत्त्री-जपमयुतगायत्त्रीजपं वा अहं करिष्ये ।  इति सङ्कल्प्य जपेत् ।  तत उपवासं हविष्यं वा कुर्य्यात् ॥  * ॥ तत्परदिने उषसि स्नानादिकं कृत्वा स्वस्तिवाचनपूर्ब्बकं सङ्कल्पं कुर्य्यात् ।  यथा विष्णुः ओम् अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा अमुकदेवताया अमुकमन्त्रसिद्धिप्रतिबन्धकता-शेषदुरितक्षयपूर्व्वकतन्मन्त्रसिद्धिकामोऽद्यारभ्य यावता कालेन सेत्स्यति तावत्कालममुकदेवताया अमुकमन्त्रस्य इयत्संख्यजपतद्दशांशहोमतद्दशांशतर्पण-तद्दशांशाभिषेक-तद्दशांशब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये ।  इति सङ्कल्प्य भूतशुद्धिप्राणायामादिकं कृत्वा स्वस्वमुद्रां बद्ध्वा स्वस्वपूजापद्धत्युक्तक्रमेण देवतां संपूज्य दीपे प्रज्वलिते देवतां हृदये प्रातःकालं समारभ्य मध्यंदिनं यावत् जपं कुर्य्यात् ।  ततस्तद्दशांशहोम-तद्दशांश-तर्पण-तद्दशांशाभिषेक-तद्दशांशब्राह्मणभोजनङ्कुर्य्यात् ।  तथा च ।  सनत्कुमारतन्त्रे । " प्रणवं तत्सदद्येति मासपक्षतिथावपि । अमुकासुकगोत्रोऽहं मूलमुच्चार्य्य तत्परम् ॥ सिद्धिकामोऽस्य मन्त्रस्य इयत्सङ्ख्यं जपन्ततः । दशांशं हवनं होमाद्दशांशं तर्पणं ततः ॥ दशांशं मार्ज्जनं तस्माद्दशांशं विप्रभोजनम् । पुरश्चरणमेवं हि करिष्ये प्रागुदङ्मुखः ॥ "  तथा । " दीपस्य ज्वलितस्याथ जपकर्म्म प्रशस्यते । तद्दीपस्थानमाश्रित्य वातातपसहां कुटिम् ॥ निर्म्माय विधिवत् कुर्य्यात् जपं तत्र शुभे दिने ॥ "  ततो होमस्ततस्तर्पणम् ॥  * ॥ तन्त्रान्तरे । " तर्पणन्तु ततः कुर्य्यात्तीर्थोदैश्चन्द्रमिश्रितैः । जले देवं समावाह्य पाद्याद्यैरुदकात्मकैः ॥ सम्पूज्य विधिवद्भक्त्या परिवारसमन्वितम् । एकैकमञ्जलिं तोयं परिवारान् प्रतर्पयेत् ॥ ततो होमदशांशेन तर्पयेत् परदैवतम् । संपूर्णायान्तु सङ्ख्यायां पुनरेकैकमञ्जलिम् । अङ्गादिपरिवारेभ्यो दत्त्वा देवं विसर्ज्जयेत् ॥ "   * ॥ तर्पणवाक्यन्तु मूलमुच्चार्य्य श्रीअमुकं तर्पयामि नमः ।  इति विष्णुविषयम् ।  तथा च गौतमीये । " आदौ मन्त्रं समुच्चार्य्य श्रीपूर्ब्बं कृष्णमित्यपि । तर्पयामि पदञ्चोक्त्वा नमोऽन्तं तर्पयेन्नरः ॥ "  अन्यत्र मूलमुच्चार्य्य अमुकदेवतां तर्पयामाति । तथा च । " तर्पयामि पदञ्चोक्त्वा मन्त्रान्ते स्वेषु नामसु । द्वितीयान्तेषु चेत्येवं तर्पणस्य मनुर्म्मतः ॥ "  शक्तिविषये पुनर्म्मूलमुच्चार्य्य अमुकीं तर्पयामि स्वाहा ।  होमतर्पणयोः स्वाहेति तत्तत्तन्त्रवचनात् ।  नीलतन्त्रे । " मन्त्रान्ते नाम चोच्चार्य्य तर्पयामि ततः परम् । कुर्य्याच्चैव वरारोहे ! स्वाहान्तं तर्पणे मतम् ॥ "  इत्यादि ॥  विशुद्धेश्वरतन्त्रे । " विद्यां पूर्ब्बं समुच्चार्य्य तदन्ते देवताभिधाम् । तर्पयामीति सम्प्रोक्त्वा स्वाहान्तस्तर्पणो मतः ॥ "  अभिषेकवाक्यन्तु ।  नमोऽन्तं मूलमुच्चार्य्य असुकदेवतामहमभिषिञ्चामि इति कलसमुद्रया स्वमूर्द्ध्नि अभिषिञ्चेत् ।  तथा च ।  गौतमीये । " नमोऽन्तं मूलमुच्चार्य्य तदन्ते देवताभिधाम् । द्वितीयान्तामहं पश्चादभिषिञ्चाम्यनेन तु ॥ अभिषिञ्चेत् स्वमूर्द्धानं तोयैः कुम्भाख्यमुद्रया ॥ " शक्तिविषये नीलतन्त्रे । " मन्त्रान्ते नाम चोच्चार्य्य सिञ्चामीति नमः पदम् ॥ "  इति ।  ततो ब्राह्मणान् भोजयित्वा पूजां कुर्य्यात् ॥  * ॥  ततो दक्षिणा ।  अद्येत्यादि कृतैतदमुकमन्त्रपुरश्चरणकर्म्मणः साङ्गतार्थं दक्षिणामिदं काञ्चनं वह्निदैवतं अमुकगोत्राय गुरवे तुभ्यमहं सम्प्रददे ।  ततोऽच्छिद्रावधारणं कुर्य्यात् ॥ अथ ग्रहणपुरश्चरणसङ्कल्पः । तद्यथा    --ओम् अद्येत्यादि राहुग्रस्ते निशाकरे दिवाकरे वा असुकगोत्रःश्रीअमुकदेवशर्म्मा अमुकदेवताया अमुकमन्त्रसिद्धिकामो ग्रासाद्बिमुक्तिपर्य्यन्तं अमुकदेवताया अमुकमन्त्रजपरूपपुरश्चरणमहं करिष्ये ।  इति सङ्कल्प्य जपेत् ।  ततस्तद्दिने तत्परदिने वा स्नानादिकं विधाय ॐ अद्येत्यादि अमुकदेवताया अमुकमन्त्रस्य कृतैतत् ग्रहणकालीन-इयत्सङ्ख्यजपतद्दशांशहोमतद्दशांशतर्पण-तद्दशांशाभिषेक-तद्दशांशब्राह्मणभोजनकर्म्माण्यहं करिष्ये ।  इति सङ्कल्प्य होमादिकं कुर्य्यात् ।  दक्षिणादिकन्तु पूर्ब्बवत् । " इति कृष्णानन्दकृततन्त्रसारः ॥  * ॥ (अथ रहस्य पुरश्चरणम् । श्रीपार्व्वत्युवाच । " कथयस्व महादेव ! सिद्धिकारणमुत्तमम् । येन सिद्धिं समायान्ति सर्व्वतन्त्राश्च सिद्धिदाः ॥ येषु येषु च कालेषु पुरश्चर्य्या भवेद्ध्रुवम् ॥ श्रीशिव उवाच । कथयामि समासेन श्रूयतां पर्व्वतात्मजे ! । मेषराशौ दशसहस्रं प्रजपेन्मन्त्रमुत्तमम् ॥ पुरश्चरणमेतद्धि श्रूयतां सुरवन्दिते ! ॥ वृषराशौ यदा मन्त्री द्व्ययुतं प्रजपेत् सुधीः । तेन तत्र सुसिद्धः स्यान् नात्र कार्य्या विचारणा ॥ मिथुने च यदा मन्त्री त्र्ययुतं मन्त्रमुत्तमम् । प्रजपेत् प्रयतो नित्यं पुरश्चरणमुच्यते ॥ कर्कटे च यदा मन्त्री सहस्रं प्रत्यहं जपेत् । तेन सर्व्वार्थसिद्धिः स्यात् पुरश्चरणकृद्भवेत् ॥ सिंहे च सर्व्वमन्त्राणामयुतानां द्बयं जपेत् । धर्म्मार्थकाममोक्षाणां फलभाग्भवति ध्रुवम् ॥ कन्यायाञ्च यदा मन्त्री मन्त्रं मन्त्रपरायणः । सहस्रं द्वादशञ्चैव जपेन्नियतमानसः ॥ पुरश्चरणमेतद्धि सर्व्वकामार्थसाधनम् । इह लोके सुखं भुक्त्वा चान्ते देवीपदं व्रजेत् ॥ तुलायां प्रत्यहं मन्त्री सहस्रं साधको जपेत् । अनेन विधिना देवि ! पुरश्चरणकृद्भवेत् ॥ वृश्चिके चायुतं मन्त्रं शय्यायां प्रजपेत् सुधीः । तेन सर्व्वार्थसिद्धिः स्यात् पुरश्चर्य्याफलं भवेत् ॥ धनुषि च यदा मन्त्रं जपेदयुतमादरात् । इहैव कन्दर्पसमो धनवान् वलवान् सुखी ॥ मकरे च यदा मन्त्रं जपेत् साधकसत्तमः । चतुर्णामयुतं देवि ! प्रत्यहं यतमानसः ॥ धर्म्मार्थे भावयेन्नित्यं पुरश्चरणमुच्यते ॥ कुम्भ चैव यदा मन्त्रं जपेदयुतमादरात् । तेन सर्व्वार्थसिद्धिः स्यात् पुरश्चरणकृद् भवेत् ॥ मीने चैव यदा देवि ! प्रजपेदयुतं द्बयम् । तेन पुरश्चरणमित्याहुः सर्व्वागमविशारदाः ॥ सर्व्वत्र जपनं ज्ञेयं रात्रौ वा मैथुनेऽपि वा । शय्यायान्तु विशेषेण परयोषित्समागमे ॥ हविष्याशी तदा देवि ! जपेन्नियतमानसः । एवंविधं जपं कृत्वा दशांशञ्च तदाचरेत् ॥ दक्षिणां गुरवे दत्त्वा सिद्धिभाग् भवति ध्रुवम् । अथवान्यप्रकारेण पुरश्चरणमुच्यते ॥ रविवारादिसर्व्वेषु वारसंख्यासहस्रकम् । जप्त्वा मन्त्रं सदा देवि ! साधकः सिद्धिभाग् भवेत् ॥ पुरश्चरणमेतद्धि नात्र कार्य्या विचरणा ॥ एवंविधं समाचर्य्य दशांशञ्च तदाचरेत् । गुरवे दक्षिणां दत्त्वा सर्व्वकाममवाप्नुयात् ॥ केवलं जपमात्रेण पुरश्चरणमुच्यते । येषु येषु च नक्षत्रेषु जायते सिद्धिरुत्तमा ॥ कथयामि समासेन श्रूयतां पर्व्वतात्मजे ! । अश्विन्यां जप्यते मन्त्रं साधकैश्च सहमकम् ॥ तेन सिद्धिमवाप्नोति साधको नात्र संशयः । द्विसहस्रं जपेन्मन्त्रं भरण्याञ्च यदा सुधीः ॥ यमलोकं परित्यज्य धनेन च धनाधिपः । कृत्तिकायां जपेन्मन्त्रं त्रिसहस्रञ्च साधकः ॥ रोहिण्याञ्च यदा मन्त्रं जपेत् साधकसत्तमः । सहस्रं वा शतं वापि सर्व्वकामार्थमाप्नुयात् ॥ मृगशीर्षे यदा मन्त्रं नियतं प्रजपेत् सुधीः । सहस्रपञ्चकञ्चैव बृहस्पतिसमो भवेत् ॥ आर्द्रायां जप्यते मन्त्रं साधकैः सुसमाहितैः । षट्सहस्रं यदा देवि ! सर्व्वकामार्थसिद्धये ॥ पुनर्व्वसुसमायोगे यदा सहस्रमुत्तमम् । जप्यते साधको नित्यं लभते च सुरोत्तमम् ॥ पुष्यायाञ्च जपेन्मन्त्रं सप्तानाञ्च सहस्रकम् । तेन सर्व्वसुसिद्धिः स्यात् पुरश्चर्य्याधिको विधिः ॥ अश्लेषायां यदा देवि ! मन्त्री मन्त्रं समाहितः । सहस्रषष्ठकञ्चैव जपेत् सर्व्वार्थसिद्धये ॥ दशसहस्रं मघायाञ्च जप्त्वा मन्त्रं समाहितः । पुरन्दरसमो भूत्वा साधको विचरेत् भुवि ॥ एकादशसहस्रन्तु पूर्ब्बत्रये जपेत् सुधीः । कुवेर इव वित्ताढ्यो जायते नात्र संशयः ॥ उत्तरत्रितये देवि ! सहस्रं द्वादशं तथा । जप्यते साधकैर्नित्यं सर्व्वकामार्थसिद्धये ॥ हस्तायाञ्च जपेद्देवि ! सहस्रञ्च त्रयोदश । सूर्य्यस्यैव समो भूत्वा विचरेत् भुवि साधकः ॥ चित्रायाञ्च जपेन्मन्त्रं द्विसहस्रञ्च साधकैः । नानाभोगसमायुक्तो भवेद् भुवि पुरन्दरः ॥ स्मृत्वा सर्व्वार्थसिद्धिः स्यात् द्बिसहस्रस्य जापनात् । साधकोऽव्याहतगतिर्जायते नात्र संशयः ॥ विशाखायां यदा मन्त्रं चतुःसहस्रकं प्रिये ! । जपेच्च साधको नित्यं सोमवत् प्रियदर्शनः ॥ अनुराधायां यदा देवि ! मन्त्री मन्त्रं सदा जपेत् । पुत्त्रपोत्त्रसमायुक्तः खेचरो जायते ध्रुवम् ॥ ज्येष्ठायाञ्च यदा मन्त्रं द्विसहस्रं विचक्षणः । प्रजपन् लभते सिद्धिं नात्र कार्य्या विचारणा ॥ मूलायाञ्च जपेन्मन्त्रं सहस्रं पञ्चकं प्रिये ! । नानासिद्धिमवाप्नोति साधको नात्र संशयः ॥ वरुणेन समो भूत्वा जायते साधको भुवि । शतभिषायां यदा मन्त्रं द्विःसहस्रं जपेत् सुधीः ॥ महापातकान्मुच्येत फलभाग्भवति ध्रुवम् । रेवत्याञ्च यदा मन्त्रं चत्वारि सहस्रकं तथा ॥ जप्त्वा स्तुत्वा सदा देवि ! सोमलोकमवाप्नुयात् । रात्रौ वा मैथुने वापि शय्यायाञ्च व्यवस्थितः ॥ प्रजपेत् साधको नित्यं साधयेदात्मनो हितम् । सर्व्वदा प्रजपेन्मन्त्रं हविष्याशी दिवा शुचिः ॥ दक्षिणां गुरवे दद्यात् यथा विभवविस्तरम् । अथवान्यप्रकारेण पुरश्चरणमुच्यते ॥ आदित्यादिवारयोगे नन्दादितिथियोगतः । ततस्तत्र जपेन्मन्त्रं सहस्रपञ्चकं प्रिये ! ॥ तेन सर्व्वार्थसिद्धिः स्यात् पुरश्चरणकृद् भवेत् । प्रतिपत्तिथिमारभ्य कुहूर्य्यावत् भवेत् प्रिये ! ॥ तिथिसंख्यां समासाद्य वर्द्धयेच्च सहस्रकम् । जप्त्वा मन्त्रं सदा मन्त्री सर्व्वकाममवाप्नुयात् ॥ पुरश्चरणमेतद्धि कथितं ते वरानने ! । प्रतिपत्तिथिमारभ्य राका यावद् भवेत् प्रिये ! ॥ तावन्मन्त्रं प्रजपेत तिथिसंख्याक्रमेण तु । सर्व्वभावसमायुक्तो जायते भावसाधकः ॥ एतेनैव सुसिद्धिः स्यात् नात्र कार्य्या विचारणा । अथवान्यप्रकारेण पुरश्चरणमुच्यते ॥ ववादिकरणे देवि ! जप्त्वा विद्यामनन्यधीः । करणानुसारेणैव वर्द्धयेच्च सहस्रकम् ॥ पुरश्चरणमेतद्धि सर्व्वतन्त्रे च गोपितम् । साधकस्य हितार्थाय कथितं तद्वरानने ! ॥ अथवान्यप्रकारेण पुरश्चरणमुच्यते । विष्कुम्भादिषु योगेषु यो जपेत् योगसंख्यया ॥ सहसं साधको नित्यं सर्व्वसिद्धिपरायणः । पुरश्चरणमेतद्धि तन्त्रे तन्त्रे निरूपितम् ॥ संक्रान्त्यादिषु सर्व्वासु विषुवादिषु पार्व्वति ! । संक्रान्त्यनुसारेणैव वर्द्धयेच्च सहस्रकम् ॥ पूर्ब्बमुखो जपेन्मन्त्रं धनार्थी सर्व्वदा प्रिये ! । शत्रुनाशाय सततं दक्षिणाभिमुखो जपेत् ॥ "  इति स्वतन्त्रे तन्त्रे हरगौरीसंवादे रहस्यपुरश्चरणविधिः ॥  * ॥ )  अत्र आगमकल्पद्रुमोक्तकूर्म्मचक्रंतच्छब्दे द्रष्टव्यम् ।  हरिभक्तिविलासीयपुरश्चरणन्तु तद्ग्रन्थे सप्तदशविलासे दर्शनीयम् ॥

No comments:

Post a Comment