Wednesday, July 17, 2019

Pooranamadam - Sanskrit meaning

।।श्रीमते रामानुजाय नमः।।

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

       –बृहदारण्यकोपनिषत्, 5/1/1
         (ईशावास्योपनिषद्)

"ॐ पूर्णम् अदः पूर्णम् इदम्
पूर्णात् पूर्णम् उदच्यते
पूर्णस्य पूर्णम् आदाय
पूर्णम् एव अवशिष्यते ।"

पूर्णमदः = पूर्णम् + अदस्
पूर्णमिदम् = पूर्णम् + इदम्
पूर्णमुदच्यते = पूर्णम् + उदच्यते
पूर्णमादाय = पूर्णम् + आदाय
पूर्णमेवावशिष्यते = पूर्णम् + एव + अवशिष्यते।

पूर्णम् = पॄ-इति धातुः ।तस्य क्त-कृदन्तम्। अत्र नपुंसकलिङ्गि (विशेषणम्)। तस्य प्रथमा विभक्तिः एकवचनं च ।

अदः =अदस् इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

इदम् =इदम्-इति सर्वनाम ।अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

पूर्णात् = पॄ-इति धातुः। तस्य क्त-कृदन्तम्। अत्र नपुंसकलिङ्गि(विशेषणम्)। तस्य पञ्चमी विभक्तिः एकवचनं च ।

उदच्यते = (उत् + अच्) अथवा उत् + अञ्च्) इति धातुः । भ्वा० सेट् उ० । अचुँ॑ अञ्चुँ  वा (गतौ याचने च) इत्येके॑ । तस्य कर्मणिप्रयोगे (क्रियापदम् ) लटि (वर्तमानकाले) प्रथमपुरुषे एकवचनम् ।
 
पूर्णस्य =पॄ-इति धातुः।तस्य क्त-कृदन्तम्। अत्र नपुंसकलिङ्गि (विशेषणम्)। तस्य षष्ठी विभक्तिः एकवचनं च ।

पूर्णम् = पॄ-इति धातुः। तस्य क्त-कृदन्तम्। अत्र नपुंसकलिङ्गि ( विशेषणम्)। तस्य द्वितीया विभक्तिः एकवचनं च ।

आदाय = आदा इति धातुः । तस्य ल्यबन्तम् ।धातुसाधितं अव्ययम्।

एव = अव्ययम्  

अवशिष्यते = (अव + शिष्) इति धातुः। तस्य कर्मणिप्रयोगे (क्रियापदम्) लटि (वर्तमानकाले) प्रथमपुरुषे एकवचनम् ।

शान्तिः = शान्ति-इति स्त्रीलिङ्गि नाम। तस्य प्रथमा विभक्तिः एकवचनं च ।
 
अन्वयः
---------

अदः पूर्णम् (अस्ति)
इदं पूर्णम् (अस्ति)
पूर्णात् पूर्णम् उदच्यते
पूर्णस्य पूर्णम् आदाय
पूर्णम् एव अवशिष्यते।

अदः पूर्णम् इदं पूर्णं पूर्णात् पूर्णम् उदच्यते, पूर्णस्य पूर्णम् आदाय (पश्यतः) पूर्णम् एव अवशिष्यते ।

"वह (परब्रह्म) पूर्ण है और यह (जगत्) भी पूर्ण है; क्योंकि पूर्ण (परब्रह्म) से ही पूर्ण (जगत्) की उत्पत्ति होती है। तथा पूर्ण (जगत्) का पूर्णत्व लेकर (अपने में समाहित करके) पूर्ण (परब्रह्म) ही शेष रहता है। हमारे त्रिविध ताप (आधिदैविक, आधिभौतिक और आध्यात्मिक) की शांति हो।"

अर्थः
------

अयं हि सुप्रसिद्धो मन्त्रः। अत्र मन्त्रे
पूर्णशब्दः सप्तकृत्वः आम्नातः । परिपूर्णे परब्रह्मणि भेदा वा अंशा वा तारतम्याणि वा नैव विद्यन्ते इति सुन्दरतया सरलतया च अयं मन्त्रः उद्घोषयति । आकाशवत् निरवयवं सर्वव्यापकं च ब्रह्म परिपूर्णमेव खलु ?

अदः तत्पदलक्ष्यं ब्रह्म, पूर्णम् (न कुतश्चित् व्यावृत्तम्, व्यापि इत्येतत्)। आकाशवत् व्यापि, अपरिच्छिन्नम् इति यावत्, इदं त्वं पदलक्ष्यं जीवस्वरूपम् अपि पूर्णं, ननु द्वयोः पूर्णत्वं वस्तुपरिच्छेदात् विरुद्धम् इत्यतः आह-पूर्णात् इत्यादि । पूर्णात् ब्रह्मणः पूर्णम् एव जीवस्वरूपम् उदच्यते उद्रिच्यते उदेति इति यावत्, पूर्णस्य परिणाम-असंभवेन ततः उत्पद्यमानस्य औपाधिकत्वम् एव महाकाशाद् उद्गच्छतः घटाद्याकाशस्य तथा दर्शनात् । औपाधिकस्य तदेव तथ्यं रूपं यतः सः उदेति इति निदानाभेदात् पूर्णात् उद्रिच्यमानं पूर्णम् एव इति भावः।

ननु जीवस्वरूपस्य पूर्णत्वे कुतः तत् न अनुभूयते ? तत्र आह-पूर्णस्य इत्यादि । पोर्णस्य यत् पूर्णं स्वरूपं तन्मात्रम् आदाय उपाध्यंशम् अपहाय (पश्यतः) पूर्णम् एव अवशिष्यते पूर्णम् एव स्वरूपम् अवभाति इति । घटेन सह अवलोक्यमानस्य नभसः अपूर्णत्वभाने अपि घटांशं विहाय अवलोकने पूर्णत्वस्य एव अनुभवः यथा इति भावः।

तात्पर्यम्
-----------

सोपाधिकतया दृश्यमानमिदं जगत् अपि पूर्णमेव । महाकाशः पूर्णः, घटाकाशोऽपि पूर्णः । पूर्णे ब्रह्मणि महत् अल्पम् इति भेदो नावकल्पते । पूर्णात् ब्रह्मणः आगतं सर्वमपि पूर्णमेव ब्रह्म । इदं जगदपि पूर्णमेव । अणुरेणुतृणकाष्ठादि सर्वमपि पूर्णः ब्रह्मैव । अविद्याकल्पितेषु उपाधिष्वेव तारतम्यं दृश्यते न तु पूर्णे ब्रह्मणि । एवंविद्वानेव ब्रह्मज्ञानी । सोऽपि पूर्णं ब्रह्मैव भवति ।

त्रिः शान्तिः(ॐ शान्तिः! शान्तिः!! शान्तिः!!!) पठनं तु आध्यात्मिकादित्रिविधोपद्रवशमनाय इति ध्येयम् । आदौ प्रणवघोषः च वेदोच्चारणनियतः मङ्गलम् आतनोति इति विज्ञेयम् ।

हिन्दी भाव
--------------

यह ईशावास्योपनिषद् का मन्त्र है। यह मन्त्र वास्तव में इसी सत्य की ओर इंगित करता है कि प्रत्येक वस्तु और प्रत्येक जीव स्वयं में पूर्ण होता है । 'पूर्णमदः पूर्णमिदं' – वह परब्रह्म भी पूर्ण है और यह कार्यब्रह्म भी पूर्ण है । 'पूर्णात् पूर्णमुदच्यते' – क्योंकि यह पूर्ण उस पूर्ण आत्मा से ही उत्पन्न हुआ है ।

समस्त ब्रह्माण्ड अपने आपमें पूर्ण हैं । ब्रह्माण्डों में व्याप्त समस्त वायु, अग्नि, जल आदि तत्व, समस्त रूप-रस-गन्ध आदि अपने आपमें पूर्ण हैं । समस्त काल, समस्त दिशाएँ – कुछ भी अपूर्ण नहीं हैं । इस प्रकार हम सब उस विराट के सूक्ष्म से भी सूक्ष्मतर कण होते हुए भी स्वयं में पूर्ण हैं, क्योंकि हम पूर्ण का अंश हैं । पूर्णता का बोध वास्तव में अद्वितीय होता है और उसका कोई विकल्प भी नहीं होता । यदि विकल्प खोज भी लिया जाए तो वह भी निश्चित रूप से पूर्ण ही होगा । हम सभी पूर्ण के भीतर भी हैं और हमारे भीतर ही पूर्ण है । क्योंकि हम सभी पूर्ण हैं । हम सभी एक ही पूर्ण का विविध रूपों में विस्तार हैं।

       –रमेशप्रसाद शुक्ल

       –जय श्रीमन्नारायण।

No comments:

Post a Comment