Wednesday, July 31, 2019

Desire the bhoota - Short story in sanskrit

!!लघ्वी कथा आशा!!
-----------------------------------
अद्यत्वे यथा असम्प्रान्ते घर्मः अस्ति तथैव घर्मकालः आसीत्!

कश्चन पथिकः मार्गे गच्छति स्म!  
चलित्वा चलित्वा श्रान्तः सः एकस्य वृक्षस्य अधः उपविष्टवान्!

स वृक्ष कल्पवृक्षः आसीत् इति पथिकः न ज्ञातवान्!

अतीव तृषितः सः मनसि चिन्तितवान् यत् इदानीं पातुं नारिकेलजलं स्यात् तर्हि उत्तमं स्यात् इति!

आश्चर्यं नाम तस्य पुरतः झटिति नारिकेलजलम् उपस्थितं अभवत्!

सः सन्तुषेण सर्वं जलं पीतवान्!

पुनः बुभुक्षितः सः चिन्तितवान् यत् इदानीं यदि मिष्टान्नं स्यात् तर्हि उत्तमं स्यात्!

झटिति तदपि तस्य पुरतः उपस्थितम् अभवत् !

सः पथिकः आनन्देन बुभुक्षया सर्वं मिष्टान्नं खादितवान्!

भोजनं कृत्वा तन्द्रा आगता सः  चिन्तितवान् यत् इदानीं यदि एका शय्या स्यात् तर्हि उत्तमः भवेत्!

आश्चर्यं नाम अनुक्षणं तदपि तस्य पुरतः उपस्थिता एव!

आश्चर्येण सः शय्यायाः उपरि उपविष्टवान् !
पुनः सः चिन्तितवान् यत् इदानीं काचित् सुन्दरी हस्ते ताम्बूलं गृहीत्वा आगच्छेत् चेत् बहु संतोषः अभविष्यम् इति!

झटिति सा अपि उपस्थिता एव!

इदानीं तु पथिकः चिन्तितवान्
किमेतत्? यदहं चिन्तयामि तत् सर्वम् उपस्थितं भवति!
 एषा तु काचित् भूतचेष्टा स्यात्!

यदि एषः भूतः अत्र आगत्य मां खादति तर्हि मम का गतिः भविष्यति इति चिन्तितवान्!

अनुक्षणम् एव भूतः आगतवान्, तं च खादितवान्!

वस्तुतः एषः आशानामकः भूतः आसीत्!!
-प्रदीपः

No comments:

Post a Comment