Friday, July 26, 2019

3rd vibhakti rules in Sanskrit

तृतीया विभक्तिः--- (प्रयोगः)

१. साधकतमं करणम्-- सः चक्षुषा पश्यति। 
२. कर्तृकरणयोः-- शिशुना चन्द्रः दृश्यते। सः कुठारेण वृक्षं छिनत्ति।
३. हेत्वर्थे-- हर्षेण नृत्यति बाला।
४. सह, सार्धम्, साकम्, समम् इति योगे-- पुत्रेण सह/सार्धं/साकं/समं पिता अगच्छत्।
५. अपवर्गे-- तेन मासेन विज्ञानम् अधीतम्।
६. येनाङ्ग-विकारः-- सः कर्णेन वधिरः।
७. इत्थम्भूतलक्षणे-- मुनिकुमारैः आश्रमः परिचीयते।
८. ऊन-वारण-प्रयोजन-विनादियोगे-- एकेन ऊनः जनसमूहः। अलं विवादेन। तस्य धनेन प्रयोजनं नास्ति। कष्टेन विना कुतो विद्या ?
९. प्रकृत्यादिभिश्च-- प्रकृत्या मधुरं गवां पयः। जात्या ब्राह्मणोsयम्। आकृत्या सुन्दरः सः। स्वभावेन सरलो हरिः। वृत्या शिक्षकोsहम्। गोत्रेण आत्रेयः, इत्यादयः।
--

No comments:

Post a Comment