Friday, July 5, 2019

3 language formula - Sanskrit poem

त्रिभाषासूत्रपञ्चम्
***************
(१)
राज्यभाषा हि राज्यस्य भारतस्य तु संस्कृतम्।
आंग्ली हिन्दी तृतीया वा त्रिभाषा देशभूषणम्।।
(२)
यतो हिन्दी राज्यभाषा दाक्षिण्या न गृह्नन्ति ताम्।
संस्कृतं देवभाषातः सर्वेषां सा प्रिया भवेत्।।
(३)
यस्मिन् हिन्दी राज्यभाषा तृतीयाङ्ग्ली भवेद् ध्रुवम्।
अन्यरज्यानि वै हिन्दीमांग्लीं वान्ते गृह्नन्तु च।।
(४)
कस्य राज्यस्य नापत्तिरत्र स्याद् विदुषां मतम्।
भारतजननीतुण्डे द्वितीया संस्कृतं भवेत्।।
(५)
अथिकारिगणा मन्त्रि-नेतारः शान्तचेतसा।
विचार्य सफलीकुर्युः त्रिभाषारूपलक्षणम्।।
       
             (व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment