Wednesday, June 26, 2019

Yayayaa... Sanskrit Sloka of desikar in paduka sahasram

।।श्रीमतेनिगमान्तमहादेशिकाय नमः।।

यायायायायायायायायायायायायायायाया ।
यायायायायायायायायायायायायायायाया ॥

     –पादुकासहस्रम्(निगमान्तमहादेशिक)

वैशिष्ट्यम् – 

32 वर्णैः युक्तः अयं श्लोकः 'य' इत्येकेन व्यञ्जनेन 'आ' इत्येकेन एव स्वरेण विरचितः अस्ति ।

श्लोकस्य  पदविभागः, अन्वयश्च –

यायाया, आय, आयाय, अयाय, अयाय, अयाय, अयाय, अयाया, यायाय,
आयायाय, आयाया, या, या, या, या, या, या, या, या ।

अर्थः
------

भगवतः विभूषके इमे पादुके, ये उत्तमस्य शुभस्य सर्वस्य प्राप्तौ सहकुरुतः,ये ज्ञानदायिके, ये (भगवत्प्राप्तेः) इच्छां जागरयतः, ये च अरिनाशके, ये गमनागमनावसरे उपयुज्येते, ययोः साहाय्येन जगतः सर्वाणि स्थलानि गन्तुं शक्यानि, ते स्तः भगवतः विष्णोः पादुके ।

In English
----------------
The sandals which adorn the Lord, which help in attainment of all that is good and auspicious, which give knowledge, which cause the desire (of having the Lord as one's own), which remove all that is hostile, which have attained the Lord, which are used for going and coming from one place to another, by which all places of the world can be reached, these sandals are for Lord Vishnu.

       –रमेशप्रसाद शुक्ल

       –जय श्रीमन्नारायण।

No comments:

Post a Comment