मित्रयोः संभाषणम्!
---------------------------
प्रशान्तस्य मित्रं गौतमः अस्ति!
एकदा प्रशान्तः स्वस्य मित्रस्य गृहं गतवान्!
प्रशान्तः- मित्र गौतम! गृहे कोऽपि नास्ति वा?
गौतमः- आहो मित्र प्रशान्त! तव कथम् आगमनम् अभवत्, अहो भाग्यम्!
प्रशान्तः- आहो मित्र एवं नास्ति भोः, तव गृहे कोऽपि नास्ति वा?
गौतमः- नास्ति भोः! माता भगिन्या सह मंदिरं गतवती, पिता भ्रात्रा सह विपणीं गतवान्, अनुजः बालकैः सह क्रीडति! अहं एकाकी एव गृहे अस्मि!
प्रशान्तः- आहो एवं वा, तर्हि त्वं मया सह आपणं चल , मम माता आपणं गत्वा शर्करां आनय इति आदिष्टवती, अहं स्यूतेन विना आगतवान् भोः!
गौतमः- अहो चिन्ता न कार्या, अहं स्यूतं दास्यामि, प्रथमं पश्य धनेन विना आगतं वा?
प्रशान्तः- न भोः, धनं तु अस्त्येव, किञ्चित् जलं दद, पास्यामि!
गौतमः- जलं किं चायं दास्यामि, त्वं शर्करया विना चायं पिबसि उत शर्करया सह?
प्रशान्तः- शर्करया सह एव पिबामि परन्तु इदानीं मास्तु!
गौतमः- किमर्थं भोः, इदानीं तु मम चायपानसमयः , आगच्छ!
प्रशान्तः- आहो अस्तु तर्हि!!
प्रदीपः!
*जयतु संस्कृतम्, जयतु भारतम्*
No comments:
Post a Comment