Friday, June 7, 2019

Sanskrit poem congratulating minister Sri.Pratap chandra Sarangi

केन्द्रियमन्त्रिश्रीप्रतापचन्द्रषडङ्गि-
महोदयानामभिनन्दनाष्टकम्
**********************
(१)
बालेश्वरप्रान्तगता सुविद्या
रम्यौडिशा यस्य च जन्मभूमिः।
नम्रः सुशीलो हितभावपूर्णः
प्रतापचन्द्रो गुणवान् षडङ्गी।।
(२)
आङ्ग्ले सुवक्ता निपुणोपि हिन्द्यां
न संस्कृतज्ञोपि विशिष्टवक्ता।
प्राणाश्च तस्मिन् सततं प्रवृद्धै
प्रतापचन्द्रो गुणवान् षडङ्गी।।
(३)
निःस्वोपि दाताखिलदीननृऋणां
रुग्णोपि रोगातुरसेवकोयम्।
वांशालयस्थोपिच सौधकर्त्ता
प्रतापचन्द्रो गुणवान् षडङ्गी।।
(४)
स भारतस्योन्नतिकाममानो
दुःखातुराणां सुखकारणाय।
नेताभवत् पद्मदलस्य साधुः
प्रतापचन्द्रो गुणवान् षडङ्गी।।
(५)
जनप्रपूज्यो जननायकोयं
जनाधिकाराय कृतप्रयत्नः।
विधायकोभूज्जनकामदाता
प्रतापचन्द्रो गुणवान् षडङ्गी।।
(६)
नरेन्द्रमोदी प्रवरो गुणज्ञः
प्रधानमंत्री स हि भारतस्य।
तस्य प्रशंसी विजयी मतेन
प्रतापचन्द्रो गुणवान् षडङ्गी।।
(७)
विद्वान् सुभद्रः सकलातिमान्यः
स्वार्थी यतो नो बहुमिष्टभाषी।
मन्त्री ततोसौ हितकारकोयं
प्रतापचन्द्रो गुणवान् षडङ्गी।।
(८)
केन्द्रीयमन्त्री जनकामदक्षो
लोभेन शून्यः सुखभोगहीनः।
प्रजातिपूज्यः सरलो विनम्रः
प्रतापचन्द्रो गुणवान् षडङ्गी।।

    (व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment