Monday, June 17, 2019

Sanskrit joke

पतिः पत्नी च प्रयाणं कुर्वतौ आस्ताम्। 

.

एकः याचकः तत्र आगतः 

.

पतिः कोशात् धनस्यूतं निष्कासितवान्।

.

आनन्देन आशीर्वचोभिः याचकेनोक्तं, "भवतोः युगलः सप्तजन्मानि यावत् यथावत् तिष्ठतु"

.

रुष्टः पतिः धनस्यूतं पुनः कोशे स्थापितवान्

.

किन्तु याचकः कुशलः आसीत्। आगतः धनप्राप्त्यवसरः यथा च्युतः न भवेत् तथा तेनोक्तं, "भगवदिच्छया एषः भवतोः सप्तमः जन्म भवतु।"

.

पतिः तु पूर्णं स्यूतमेव याचकाय अर्पितवान् 

No comments:

Post a Comment