♦कथा♦
दक्षमखनाशः
एकदा भगवान् शङ्करः पार्वतीं रहसि प्राह- देवि! पुरा दक्षप्रजापतेः त्वं तथा अन्याश्च बह्व्यः कन्यका जाताः। स मह्यं भवतीं प्रायच्छत् धर्मादिभ्यः च अपराः। कदाचित् तेन यज्ञे जामातरः अखिला आहूताः। किन्तु अहम् एक एव वर्जितः। ततः स त्वया अपृक्ष्यत-"किं न भर्ता मम आहूतः त्वया, तात! उच्यतामिति?।" कपालमाली ते भर्ता कथम् आहूयतां मखे। इत्यब्रवीत् स तदा। पापः अयम् अस्मात् जातेन किं ममामुना देहेन। इति कोपात् परित्यक्तं शरीरं
तत् प्रिये त्वया। स च दक्षयागः तेन मन्युना मया नाशितः इति ।
संस्कृतकथासंग्रहः इत्यस्मात् पुस्तकात् सन्धिं विभज्य प्रस्तूयते।🌸
कामिनी✍

No comments:
Post a Comment