Wednesday, June 26, 2019

Poem in Sanskrit for yoga day

योगदिवसाष्टकम्
**************
(१)
योगेन्द्रः स हि शंकरः पुनरथो कृष्णोपि योगेश्वरो
योगज्ञानलयी च पद्मतनयो ब्रह्मर्षयो योगजाः।
योगज्ञा मुनयो महानृपगणो योगप्रियः सर्वदा
योगे ब्रह्म विराजते खलु सखे! योगे मनः स्थापय।।
(२)
योगो रोगहरो मनःकुगतिहृत् स्वास्थस्य रक्षाकरः
सद्भावस्य विवर्द्धकः सुचरितज्ञानादिसंदेशकः।
दुर्भावप्रतिरोधको मतिभयव्यूहातिविद्रावकः
सर्वेषां हितकारको गुणभरो गृह्णीष्व तं सर्वदा।।
(३)
योगज्ञानिपतञ्जलिर्हि सुमहत् तद्दर्शनं सुन्दरं
लोकस्वार्थकृते मुदा रचितवान् सर्वस्य रत्नं   च तत्।
लोके योगिजनास्तपोधनगणाः कुर्वन्ति योगं सदा
तत्तत्त्वं निगदन्ति शान्तिसुखदं हे मित्र! योगं कुरु।।
(४)
देशे नः खलु रामदेवसहिता योगप्रियाः साधवो
योगस्याखिलकौशलं प्रतिदिनं प्राहुर्हिताकांक्षिणः।
तत्तत्त्वं परिवर्द्धते प्रतिदिनं देशे विदेशे भृशं
तस्माद् योगमना भव प्रियसखे! सुस्थं शरीरं भज।।
(५)
योगश्चित्तकथानिरोधविषये
साक्षात् प्रधानौषधि
स्तस्माद् योगिजना भवन्ति सदृढा योगे नियोज्य स्वकम्।
सत्त्वोद्रेकहृदः पतञ्जलिकृतं योगं प्रकुर्युः सदा
नूनं द्राङ् मुनिरामदेवसदृशाः सुस्था भविष्यन्ति ते॥
(६)
प्रधानमन्त्री स नरेन्द्रमोदी
करोति योगं सततं हिताय।
तेनापि लोकान् वदति प्रहृष्टं
कुर्वन्तु योगं निजमङ्गलाय।।
(७)
देशोद्य योगं कुरुते सरागं
विदेशिनोपि प्रविलोक्य तत्त्वम्।
कुर्वन्ति मोदात् सुखसाधनाय
स्वस्थाय रोगादिविनाशनाय।।
(८)
विश्वयोगदिवसोद्य सर्वेषां हितकारकः।
योगं कुर्वन्तु भो! नित्यं शुभेच्छां ज्ञापयाम्यहम् ।।

              (व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment