Friday, June 14, 2019

Modaka - sanskrit essay

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
😋बुधवासरः वैशाखकृष्णचतुर्थी (22-05-2019)🌝
प्रस्तावविषयः-- मोदकः🌕


मोदको नाम खाद्यविशेषः। मिष्टान्नमिदं गणेशस्य प्रियकरम् इति जानीमः तदर्थमेव  गणेशस्य अपरं नाम मोदकप्रिय इति जातम् ।मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् एवं गणेशपञ्चरत्नस्तोत्रारम्भेऽपि विद्यते।

देवीभागवते देवीपूजनविधिनिरूपणे
नैकत्र मोदकस्य परामर्शो दृश्यते
"मोदकं स्वादुसंयुक्तं शर्करादिविनिर्म्मितम्। मया निवेदितं भक्त्या गृहाण परमेश्वरी " इत्यपि श्लोकः दृष्टः। अनेन देव्या अपि प्रियखाद्यम् इति ऊह्यते।

मोदकः भारते सर्वत्र प्रसिद्धः। मोदकाः तण्डुलचूर्णैः निर्मीयन्ते बहिः आवरणरूपेण तण्डुलपिष्टिका अन्तः गुडनारिकेलयोः मिश्रणं च भवति। गणेशचतुर्थ्यां सर्वे भक्त्या मोदकान् निर्मीय विघ्नेश्वराय समर्पयन्ति।।

भारतस्य समीपेषु देशेष्वपि मोदकसदृशाः मधुरपदार्थाः सन्ति केवलं तेषां नामानि विभिन्नानि तावदेव अनेन मोदकस्य प्राचीनप्रसिद्धिः  ज्ञायते।
मोदकप्रियो गणेशः सर्वेषां जीवनं माधुर्यं वितरेत् इत्याशया विरम्यते ।।

~ सुनीशः

No comments:

Post a Comment